Thursday 13 September 2018

अनूक्तम्-१८ सङ्गीतम्

सङ्गीतम्
 
अन्नं, वस्त्राणि, गृहं चेति जीवने अत्यन्तमावश्यकानि सन्ति। तत्र आवश्यकवस्तुषु अहं सङ्गीतमपि योजयितुमिच्छामि। यथा वायुः सर्वत्रास्ति, तथैव वयं यत्र कुत्रापि तिष्ठामः, तत्र सङ्गीतमपि अस्मान् परितः तिष्ठति। प्रातरारभ्य आसायं, जननमारभ्य आमरणं सङ्गीतं जीवने मिलितं भवति।
    भारतीयसङ्गीतं द्विविधमस्ति, कर्णाटकं, हिन्दूस्तानी चेति। सर्वासु भारतीयभाषासु जानपद-लोकगीतानि अपि सन्ति। सङ्गीते चिकित्सकशक्तिरस्ति। सङ्गीतेन रोगाः अपि उपशाम्यन्ति। दिव्याङ्गबालानां विषयेऽपि तथ्यमेतत्। सङ्गीतं नाम तत्र वाद्ययन्त्राण्यपि- यथा, डमरुकं, वेणुः- एतान्यपि अन्तर्भवन्ति। गानं, वाद्यं च संयुज्य श्रोतॄणां रसानन्दं जनयति।
    सर्वेषां आनन्दादि-भावोद्वेगानां, यथासन्दर्भं च व्यक्तीकरणाय सङ्गीतं समर्थं भवति। तद् दुःखभाव-व्यञ्जकमपि भवति। भारतीय-चलचित्रसङ्गीतं विश्वे सर्वत्र आद्रियते, गीतानि गीयन्ते च। सङ्गीतस्य शक्तिः अपारा, यया चमत्कारा अपि भवितुमर्हन्ति। यथा- तानसेनः दिव्यगानेन दीपानि प्रज्वालितवान्। सङ्गीतेन पादपाः सम्यग् वर्धन्ते। सर्पादि-पशवोपि, सङ्गीतेन तुष्यन्ति।
    सङ्गीतेन वयं संवेदनशीलाः, सहृदयाश्च भवामः। भगवद्भक्ति-भावस्य प्रजागरणाय, दिव्यभावनानुभूतये च सङ्गीतम् अत्यन्तम् उत्तममार्गः। अतः सङ्गीतं अस्माकं जीवने सहजं समन्वितः भागः भवेत्॥ 
-----------------------
    It is said that food, clothing and shelter are the three necessities of life. I would add one more and say music is also one of the essentials for life. Just as there is air everywhere around us, music also engulfs us wherever we are, from dawn to dusk, from birth to death.
    Indian music is broadly into two main categories, the Carnation and Hindustani. Our country also has an amazing repertoire of beautiful folk songs, in every Indian language. Music has healing power, and it is believed that music helps in medical treatment, particularly in the case of special children.
    The term music also includes the various string, drum and wind instruments. They all blend together to make every music concert a treat to our souls. We have music to suit every mood, every occasion, even to depict sorrow. Our Bollywood songs have been appreciated and sung all over the world. The power of music such that it leads to miracles. For example, Tansen's could make lamps glow with light by his divine music. Music makes plants grow better, it even charms animals, like snakes.
    Music transforms us into sensible and sensitive human beings. Besides, it also an inspiring way of Bhakti or acknowledging the divine force. Hence, we should certainly make music an integral part of our lives.
(--Pushpa Subramanian)

No comments:

Post a Comment