Wednesday 12 September 2018

सँल्लापः -९ बालिका, गौश्च

सँल्लापः  - ९ 

बालिका-- हे गौः, अपि त्वं संस्कृतं जानासि?
गौः-- आम्, किं मम मुखं दृष्ट्वा तथा न भासते?
बालिका-- अहो, तर्हि तव नाम वद।
गौः-- मम नाम गौः। धेनुरपि तत्पर्यायः।
बालिका-- अहो, त्वं तव नामपर्यायपदान्यपि जानासि? किममरम् अपठः?
गौः-- आम्.. अमरे मद्विषयकः श्लोकः एवमस्ति-- माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी, अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नौचिकी॥ इति।
बालिका-- (साश्चर्यम्) अहो तव उच्चारणस्पष्टता! अहं सन्तुष्टास्मि। तानि पदानि पृथग्वद..
गौः-- किं मम परीक्षां करोषि? अहह.. अवश्यं वदामि। किमनेन अमरमात्रेण? अहं मम कोशज्ञानं प्रदर्शयामि। शब्दकल्पद्रुमात् उद्धरामि- श्रुणु। अमरस्तूक्तः ततश्च- “स्त्रीगोः पर्य्यायः ।[...] माहेन्द्री १० इज्या ११ धेनुः १२ अघ्ना १३ दोग्ध्री १४ भद्रा १५ भूरिमही १६ अनडुही १७ कल्याणी १८ पावनी १९ गौरी २० सुरभिः २१ महा २२ निलिनाचिः २३ सुरभी २४ अनड्वाही २५ द्विडा २६ अधमा २७ । इति शब्दरत्नावली ॥ बहुला २८ मही २९ सरस्वती ३० । इति जटाधरः ॥ उस्रिया ३१ अही ३२ अदितिः ३३ इला ३४ जगती ३५ शर्करी ३६ । इति वेदनिघण्टौ २ अध्यायः ॥
बालिका-- (अक्षिणी विस्तार्य) अहो.. कियद् ज्ञानं तव!!
गौः-- (सतृप्ति) एतत् तु अत्यन्तं प्राथमिकम्। किं जानासि, महाभाष्यकारेण प्रस्तावितेषु शब्देषु अहमेव सर्वप्रथमा।
बालिका-- (सदैन्यं) तन्न पठितवत्यहम्। यदाहं वर्धिष्ये, तदा मम पिता मां विश्वविद्यालयं प्रवेशयिष्यति। तदानीं पठिष्यामि।
गौः-- अस्तु। तावत् पर्यन्तं अहम् न प्रतीक्षे। अधुनैव व्याहरामि- स तु मम लक्षणानि एवं वदति।
“अथ गौरित्यत्र कः शब्दः?” इत्यारभ्य द्रव्य-क्रिया-गुण-आकृतीश्चोक्त्वा अन्ते एवं निष्कर्षयति- “कस्तर्हि शब्दः?
येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां सम्प्रत्ययो भवति स शब्दः गौः।” इति।
बालिका-- त्वं तु विदग्धा। अहं नन्दामि त्वया वार्तया। माता वदति, त्वया सह भवितव्यमिति। अधुना मया ज्ञातं कुत इति।
गौः-- (हसित्वा) अहं तु भाष्यकारोक्तदिशा मम अपभ्रंशनामान्यपि जानामि। “तद्यथा- गौरित्यस्य शब्दस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः”.. इति मां पतञ्जलिः प्रस्तौति। किं ज्ञातवत्यधुना मम प्रभावम्?
बालिका-- (सहासम्) आमाम्.. पश्यामि..त्वं तु महत्यसि। कदापि त्वां न त्यजामि। किं मम मित्रं भवसि?
गौः-- आम्.. ज्ञानेन नन्दन्ती त्वमतीव मुग्धासि। अहमपि त्वयि स्निह्यामि।
बालिका-- मम सौभाग्यमिदम्। सर्वदा आवां मिलित्वा एवमेव वार्तालापं कुर्वः।
गौः--  अवश्यम्।
बालिका-- अहो, अहं त्वां चुम्बितुमिच्छामि।
गौः-- (हसति)

No comments:

Post a Comment