Wednesday 19 July 2017

परिचयः

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।


    ज्ञानस्य उत्तमः मार्गः शास्त्रीयग्रन्थपठनं, सा च शास्त्रभाषा संस्कृतम्। सुमनोवाण्याः विज्ञानेनैव सनातनधर्मस्य विषयपरिज्ञानं साध्यम्। भारतीयतायाः, संस्कृतेश्च सम्यज्ज्ञानेन विना भविष्यकाले देशस्य प्रगतिः असाध्या। भविष्यप्रगतये अतीतस्य विवेकः भवेत्, यस्मै देववाचः संवेदनमत्यावश्यकम्। विद्यार्थिनामुपयोगाय, संस्कृतार्थिनां प्रयोजनाय च मया लेखितान् लेखानत्र सङ्गृह्णामि। अत्र विषयाः मया सांस्कृतिकपरिधेरन्तर्गताः चिताः यैः भाषया सह भारतीयतायाः अपि विज्ञानं भवेत्। 

No comments:

Post a Comment