Wednesday 12 September 2018

विचारः-३ माता-पुत्रः धनं, धर्मश्च

माता-पुत्रः धनं, धर्मश्च

समस्या--
बाल्ये माता मां वदति स्म यदि अन्नं खादति तर्हि मधुरं क्रेतुं धनं ददामि इति!!
इदानीं सा वदति गृहावश्यार्थं धनं यच्च नोचेत् पेयजलमपि न ददामि इति 
हा हन्त !! माता अपि परिवर्तिता।

समाधानम्--
आम्। किन्तु सा अन्तः यथापूर्वं स्थिता स्यात्। पुत्रं परिवर्तयितुं मातुः परिवर्तनमावश्यकं भवेत्। अतः परिवर्तनं रूपयति प्रायः..।
*एषः प्रायः गृहे शयनमेव कुर्वन् अस्ति इति मन्ये।
गृहे उपयोगार्थं धनं तु तेन देयमेव। सः पुत्रस्य धर्मः एव। स्वधर्मं स न निर्वर्तयतीति सापि धर्मनिर्वहणं त्यजति।
मातरं यदि कोपि किमपि आक्षिपति, तर्हि अन्यपक्षोपि वक्तव्यः किल।।

No comments:

Post a Comment