Wednesday 19 July 2017

सँल्लापः-१ - रे रे चातक-



कविः-- चातक, अपि कुशली? बहोः कालात् न दृष्टः। कुत्रासि, किं च करोषि?
चातकः-- (सदुःखम्) कुत्र कुशलता भोः? अहं नितरां दुःखितोऽस्मि। मम पीडां जानासि किल।
कविः-- आम्। जानामि। मां विहाय कस्तव दुःखं वर्णितुं शक्नोति, तव विषये विचारमेकं वा कर्तुं पारयति?
चातकः-- सत्सु समुद्र-नदी-तडाग-ह्रदादि-जलनिधिषु, अपि अहं तत्र क्षणमपि न तिष्ठामि। मेघात् निःसृतं प्रथमजलबिन्दुमेव पिबामि, अन्यत्र दृष्टिमपि न प्रसारयामि।
कविः-- आम्। वर्षं ग्रीष्मकालस्य पश्चादेव पतति। अधुना ग्रीष्मातपे तव स्थितिः नरक इव भवेत्।
चातकः-- आम्। यदा यदा मेघस्य बालकमपि पश्यामि, तदा तदा झटिति धावित्वा जलं निःस्सरेदिति आशासे। मम पक्षाः नितरां श्रान्ताः।
कविः-- किन्तु नभसि ये ये चरन्ति, ते सर्वे मेघाः वर्षकारकाः न भवन्ति किल। भेदं नावगच्छसि किम्?
चातकः-- यः आशया कृतदासः, सः कथं वितथं पश्येत्? भेदमवगन्तुं न पारयामि, वदतु।
कविः-- रे रे चातक.. मित्रं, सावधानमनसा श्रूयताम्। गगने बहवः अम्भोदाः सन्ति, किन्तु सर्वे तादृशाः न भवन्ति, ये जलं दद्युः।
चातकः-- अहो, अप्येवम्? तर्हि कथमहं भेदं जाने?
कविः-- श्रुणु, द्विविधाः सन्ति ते। केचित् जलदाः केवलम् आडम्बरं रवं कुर्वन्ति, विद्योतन्ते च। केचित् पुनः विना नादं सुजलं वर्षन्ति।
चातकः-- बाढम्।
कविः-- ये मेघाः श्वेतवर्णास्ते न जलकारकाः। ये कृष्णवर्णास्ते जलकारकाः। ये च बहुवेगेन गच्छन्ति व्योम्नि, तेषु आशां मा कुरु। जलपूर्णा मेघाः भारभृताः सन्तः शनैः शनैः गच्छन्ति।
चातकः-- सत्यं किल। केवलं भाररहिताः एव धावितुं प्रभवन्ति।
कविः-- आम्।
चातकः-- तृषार्तोऽहं किमवगणयामि? अक्षिणी अश्रुपूर्णे मम। प्रत्येकं मेघस्य पुरतः आक्रन्द्य श्रान्ततामनुभवामि।
कविः-- तथा न करणीयम्। यं कं पश्यसि, तस्य पुरतः गत्वा “मह्यं जलं यच्छ, यच्छे”ति दीनं वचः मा स्म वदः।
चातकः-- आम्। सत्यं वदसि कवे। तथा न करिष्यामि इतः परम्।
कविः-- त्वं महानसि, चातक। त्वां दृष्ट्वाहं, ‘व्यसनेऽपि स्वभावं कथं न त्यक्तव्यमि’ति शिक्षे। धन्योऽस्मि। जीवनं तव धन्यम्।
चातकः-- अस्तु, आश्वस्तोऽहम्। पुनर्मिलावः। शुभं भूयात्।
शम्।

No comments:

Post a Comment