मानवः-- अहो घर्मः! कालः काल इव तापयति। कियान्
क्लेशसमयः! कथमहं कार्यं करिष्ये? सूर्यः यमायते।
सूर्यः-- कस्सः, मामाक्षिप्यति? कः यमायते, अहम्
उत त्वम्?
मानवः-- आतपपाशेन नस्ताडयसि। देवस्सन् दाक्षिण्यं
न करोषि। त्वमेव यम इवाचरसि देव। जीवन्त एव अस्मान् हंसि।
सूर्यः-- अधुना ग्रीष्मर्तुः। अतः मम धर्ममहं
करोमि। तेन तव क्लेशश्चेद् न मम दोषः।
मानवः-- (परिहसन्) तवापि नियन्त्रिणी पत्नी
भवेत्, सैव तव आतपाधिक्य-क्रीडां निरुन्ध्येदिति जना परिहसन्ति त्वाम्।
सूर्यः-- (हसन्) तत्तेषां मौढ्यम्।
मानवः-- सर्वे धनवन्तो न। अकिञ्चना अपि वर्तन्ते
लोके ये शैत्यकारकयन्त्रैः युक्तेषु गृहेषु, कार्यालयेषु वा न जीवन्ति। त्वया
दयावता भाव्यम्।
सूर्यः-- दयावान् तु अहमस्मि। अतः एकेनैव
नमस्कारेण आरोग्यं प्रददामि। सूर्योदयात् पूर्वमुत्थाय, स्नात्वा यः अर्घ्यं
करोति, तस्य विशेषलाभं करोमि। बुद्धिविकासोऽपि भवति मम बालकिरणानां सेवनेन। शिशवः
बलमपि प्राप्नुवन्ति बालरश्मिभिः। मम प्रभावेण नीरसभावोऽपि शरीरात् निर्गत्य द्रवति।
मानवः-- सत्यम्। वयं भवता विना न जीवेम। जानामि।
किन्तु.. किन्तु सर्वं जलं त्वं हरसि। जलेन विना, शैत्यभावाभावेन च जनाः
म्रियन्ते।
सूर्यः-- तत् सर्वं न मम शिरोवेदना। कालस्य
ऋतोश्च धर्मः भवति। सर्वदा शैत्यमेव, सर्वकालेषु आतप एकस्तु नावतिष्ठति। ऐकविध्यं
न प्रकृतिनियमः। अधुना जलं न हरामि चेत् मेघः किं वा वर्षेत् वर्षासु?
मानवः-- वर्षाः दूरे सन्ति। अधुनाहं कथं जीवेयम्?
तत् वदतु। यावत्त्वं दहसि, तावदहं नान्यत् चिन्तितुं पारयामि।
सूर्यः-- प्रकृतौ अस्मै व्यवस्था अस्ति।
शैत्यभावाय वृक्षाणां छाया अस्ति। नदीनां परिसरप्रदेशाः शीतत्वयुक्ता एव। उटजेषु
तालपत्रच्छद-युक्तगृहेषु, मृन्निर्मित-भित्तियुक्त-लघुगृहेषु च आतपकालेऽपि घर्मभयं
नितरां न भवति।
मानवः-- सर्वदा वृक्षच्छायायां, लघुगृहेषु
कथमुपविशेयम्? कार्यमपि करणीयं उदरपोषणार्थम्। अहमकिञ्चनः कथं निर्वहेयम्।
सूर्यः-- तवैव दोषस्सः। वृक्षच्छायायां
निरन्तरोपवेशनं मास्तु। किन्तु वृक्षेषु सत्सु परिसरप्रान्तः शीतः भवति। शैत्यकारकान्
वृक्षान् छेत्तुमहं नोक्तवान्। जलाशयान् आक्रम्य सौधान् निर्मातु इति अहं
नादिष्टवान्। नानाविध-हानिकर-रसायनानि उपयुनक्तु इति मम आयोजना नासीत्।
मानवः-- सत्यम्। अङ्गीकरोमि। केचन
स्वार्थपरास्तथा कुर्वन्ति। पर्यावरणे दुष्प्रभावमविगणय्य वृक्षच्छेदनं, जलाशयोपरि
गृहसमुदायनिर्माणम् इत्यादिना च धनमर्जन्ति। सर्वकारोऽपि तत्र निषेधं न विदधाति।
सूर्यः-- त्वया तेभ्यः ज्ञानं देयम्। जनाः
ज्ञापितव्याः। ग्रीष्मकालागमनात् पूर्वमेव तस्मै व्यवस्था कार्या। एवंविधगृहाणि
निर्मितव्यानि। मृन्निर्मितकुटीरेभ्यः नाधिकं धनमावश्यकम्।
मानवः-- सत्यं वदसि। अस्तु। त्वया विवादेन न कोऽपि
लाभः। अस्माकमेव दोषः। त्यजामि। गच्छामि देव॥
No comments:
Post a Comment