(अजन्मनः शिवस्य नास्ति माता पिता वा। तथापि
तस्य महादेवस्य चेन्माता भवेत्, सँल्लापः इत्थमेव भवेदिति ऊहा।)
माता-- शिव, शिव, कुत्रासि अर्भक..? किं च करोषि?
शिवः-- पश्याम्ब! अहमत्रास्मि।
माता-- (समीपमागत्य) अहो, कतिवारमवदं, सर्पैः सह
मा खेल इति।
शिवः-- न खेलामि। तान् आभूषणानि कृत्वा धरामि।
कण्ठे हारा इव, भुजयोः केयूरा इव, पदयो नूपुराणीव च धरामि तान्।
माता-- त्वां सर्पैः सह दृष्ट्वाहं बिभेमि। दशेयुस्ते।
त्यजाविलम्बम्।
शिवः-- (हसित्वा) अत्र भयहेतुः कः? सर्पा एव किल
मम भूषणानि। मृदवः, कोमला एते भूषणैरपि इष्टतमाः मम। अतः एषः लघुसर्पः मम शिरः
आरोहति। एनं जटाजूटे योजयामि। (सर्पं) रे सर्प, तिष्ठ निमेषम्।
माता-- हरे! रक्ष मम सूनुम्!
शिवः-- (हसित्वा) स एवाहं, अहञ्चैव सः। स किं
रक्षति माम्? मम इष्टविरुद्धं स न किमप्याचरिष्यत्यम्ब।
माता-- तदस्तु जात! स तव मित्रं किल। पीताम्बरयुक्तस्सन्
स्वर्णाभूषणानि धरति, शङ्खचक्रगदापद्महस्तः शोभते च!
शिवः-- शोभतां नाम! अहमपि मम शिरसि चन्द्रं
धरामि। कण्ठश्च नीलो मम। किं नाहं शोभे?
माता-- अस्तु। यत्किमपि धरतु दारक! नाहमाक्षिपामि।
किन्तु चिताभुवौ कुतः विहरसि? शरीरे एतत् सर्वं किं लेपितम्?
शिवः-- चिताभस्म मातः! सति भस्मनि किमन्यलेपनैः?
चिताभुवौ दग्धस्य भस्मनः परिमलं मह्यं रोचतेतीव।
माता-- अहो मम भाग्यम्! अन्यैरिव कुतः सामान्य
इव नाचरत्येषः?! पश्य, रे माणवक, त्यज तत् सर्वम्। सपदि गृहमागच्छ। अहं त्वां
स्नपयामि, ततश्च कङ्कतिकया केशमार्जनं करोमि।
शिवः-- मास्तु मातः। मम शिरसि गङ्गा अस्ति।
मूर्धजानां प्रसाधनेन सा अधः पतेत्।
माता-- कुतस्तां भागीरथीं वृथा जटाजूटे स्थापितवान्?
तां तु भगीरथः स्वपितॄणां तर्पणाय स्वर्गादानीतवान् किल!
शिवः-- आम्। सा बहुवेगेन गच्छन्ती भूमिं पीडयति।
अतः अहं तामशेषां गृहीत्वा जटाजूटे स्थापितवान्। सा महान्तं कोलाहलं करोति अन्तः।
अतः गह्वरं न ददामि। क्रमशः किञ्चित् जलं बहिः सारयामि।
माता-- भगवन्! कीदृशः बाल एषः! अस्तु। अलमेतैः
कार्यैः! अधुना अन्तः आगच्छ। नूतनवस्त्राणि सन्ति। धारयामि।
शिवः-- अहं मम वस्त्राणि पूर्वमेव चितवान्।
गजचर्म, मृगाम्बरं च धरामि। पश्यतु जननि। किं नाहं सुन्दरः एताभ्याम्?
माता-- अहो, गजचर्मणः रक्तं पतति! तादृग्वस्त्रं
न शोभते, शिशो! सर्वान् देवान् पश्यतु। किं केनापि ध्रियते तथा?
शिवः-- अत एव अहं धरामि। सर्वाभ्यः देवताभ्यः किमहं
विशिष्टः, विलक्षणः नास्मि?
माता-- अहो तपस्विन्! त्वं लोकरीतिं न जानासि।
अतस्तथा वदसि। सर्वे त्वां दृष्ट्वा अल्पं मन्यन्ते।
शिवः-- (हसित्वा) ये मन्यन्ते तथा, त एवाल्पाः।
त्र्यम्बकोहं सर्वं जानामि। नेत्रत्रयेण लोकं पश्यामि। दुःखिता मा स्म भवः।
माता-- (ईषद्धसित्वा) नाहं दुःखिता शिव! तव
चेष्टितं, तद्रहस्यं चाहं सर्वं जानामि। तव मातास्मि किल! यथेष्टं चर।
शिवः-- (विस्मितः) धन्योहमम्ब!
No comments:
Post a Comment