Wednesday 19 July 2017

सँल्लापः-५ - पुस्तकालये



पुस्तकम्१-- अहो, कश्चन आगतः। मत्समीपमागच्छेत्। माम् उद्घाटयेत्। बहुकालः व्यपगतः, मनुष्यमात्रं दृष्ट्वा।
पुस्तकम्२-- त्वं तु पुरातनविषयक-पुस्तकमसि। अहम् अधुनातन-विषयक-कथा-पुस्तकमस्मि। मामेव सः उद्घाटयिष्यति।
पुस्तकम्१-- (सोपालम्भम्) सः प्राचीनविषयेष्वासक्तः भवेत्। पश्यतु, तस्य हस्ते लेखनी-लेखनपुस्तकं चास्ति। सम्प्रति आधुनिकः युवकः कः लेखने अभ्यस्तः? चलवाणीं स्वीकृत्य झटिति चित्रं गृह्णाति, पठति च।
पुस्तकम्२-- आम्। पश्यावः। (हसन्, तर्जन्या प्रदर्शयन्) तत्र संस्कृतभाषापुस्तकानाम् आधान्यां पश्यतु, पुस्तकानि कथं नृत्यन्ति..! तानि चिन्तयन्ति सः तेषामेव निकटमागमिष्यतीति।
पुस्तकम्१-- आम्। पश्यामि, शृणोमि च। तस्य प्रवेशनमारभ्य पुस्तकालये सर्वासु आधानीषु इयमेव स्थितिः।
पुस्तकम्२-- महता परिश्रमेण लेखकः अस्मान् निर्माति! नूतनं चिन्तनं, काव्य-भावं वा विज्ञाननिगूढतां वा आविष्करोति।
पुस्तकम्१-- आम्। पुस्तकोद्घाटन-समारम्भाद् आरभ्य वयं महत्या आशया निरीक्षामहे, कः का वा अस्मान् पठित्वा स्वबुद्धिं विकासयतीति। कः नः स्पृशतीति, रचयितुः कष्टस्य फलं विदधाति इति च।
पुस्तकम्१-- सत्यम्। वयं सर्वे तथैव स्मः। न कोऽपि ग्रन्थालयनाम दृष्ट्वापि अन्तः आगच्छति, न कोऽपि अस्मान् उद्घाटयति, पठति वा। केवलं परीक्षार्थिनः आगच्छन्ति, पाठ्यपुस्तकानि बहुक्लेशेन पठन्ति, फलाङ्कान् प्राप्य निर्गच्छन्ति च।
पुस्तकम्२-- आम्। ये पाठनकार्ये नियुक्ताः, तेऽपि यावत् पाठनायावश्यकं केवलं तावत् पठन्ति। यस्य लेखकस्य वयं कृतयः, सः अस्मान् सृजति, अक्षराणि संयुज्य रूपं ददाति। विचारमात्ररूपकं मनसः बहिः आनयति। काचन अपूर्वप्रतिभेयम्।
पुस्तकम्१-- आम्। मम निर्माणे मम सर्जकः नानाक्षेत्राणि, विश्वविद्यालयान्, ग्रन्थागारान् च अटित्वा, शतशः ग्रन्थान् पठित्वा लिखितवान्। वृत्त्यापि विरामं स्वीकृतवान् पुस्तकलेखनाय। विना धनं यथाकथञ्चित् निर्वहन् लिखितवान्।
पुस्तकम्२-- मम लेखिकापि तादृश्यैव। गृहकार्याणि कुर्वन्ती, शिशून् संरक्षन्ती, गृहे ज्येष्ठानां सेवां कुर्वन्त्यपि अहोरात्रं च परिश्रम्य, स्वसुखं त्यक्त्वा माम् अलिखत्। साम्प्रतिकाः रोचकाः कथाः मयि सन्तीति द्वित्राः जनाः मामभिनन्दन्।
पुस्तकम्१-- प्रथमं तु लेखनम्, पुनः मुद्रापणे क्लेशाः, ततः, बहिः प्रकटने, जनैः क्रयणे च क्लेशाः। अहो, विघ्नाः पदे पदे।
पुस्तकम्२-- सर्वम् अतिक्रम्य यदात्र अवतिष्ठामः, फलं प्राप्तुं च प्रतीक्षामहे, तदा इयं च दुःस्थितिः। इतः श्रेष्ठं कस्यचित् क्रेतुः गृहे निवासः। कदाचित् प्रेम्णा स धूलिमपसार्य, उद्घाट्य पठति, अस्मद्विषये किञ्चिद्वा प्रशंसाकरं वाक्यम् अन्यान् वदति।
पुस्तकम्१-- सत्यम्। अयं ग्रन्थालयाधिकारी, अत्रस्थाः कार्यकर्तारोऽपि केवलं धनाय वृत्तिमिमां प्राप्तवन्तः। कदापि एकोऽपि अस्मत्सु निक्षिप्तं धूलिं न मार्ष्टि। पाठकाः पठित्वा तत्र प्रास्य गच्छन्ति यथागतम्। पुनः आधान्यां न सम्यक् योजयन्ति।
पुस्तकम्२-- कदाचिदहम् आधान्या दूरमेकमासकालमतिष्ठम्। मित्राणि विहाय उत्पीठिकायां अनाथ इव अवस्था तु असह्या।
पुस्तकम्१-- आम्। ये केचित् पाठकाः आगच्छन्ति, तेऽपि अस्मान् प्रति साधु नाचरन्ति। कदाचित् पत्राणि भञ्जयन्ति, कदाचित् लेखन्या यत्किञ्चित् लिखन्ति, मुखपृष्ठं छिन्दन्ति। 
पुस्तकम्२-- इतः परं मा स्म वदः। नाहं शक्ता श्रोतुम्। स युवकः मां नोद्घाटयतु नाम। तूष्णीं भवामि।
पुस्तकम्१-- अस्तु। योग्यः पाठकः आगच्छेत् कदाचित्। अहं निरीक्षे। शुभम्।

No comments:

Post a Comment