Wednesday 19 July 2017

अनूक्तम्-१ - लुण्ठाकस्य पापक्षयः

कश्चित् महान् लुण्ठाकः आसीत्। सः आजीवनं परेषां धनमपहरन्, बहून् लुण्ठन् चासीत्। सप्ताशत् जनान् चाहनत्। अन्ते तस्य मनसि घृणितं तत् कार्यं प्रति विरक्तिः जनिता। लुण्ठनकर्म परित्यज्य सः पापानां शोधनार्थं कञ्चित् साधुपुङ्गवं शरणमन्वगच्छत्।

साधुः तस्य वृत्तान्तं सान्तं श्रुत्वा एवमवदत्– “भ्रातः, तव पापं भृशं वर्तते। सप्ताशत् जनानां हननं न सामान्यं पापम्।” इति।

लुण्ठाकोऽगदत्– गुरुदेव, कठिनातिकठिनं प्रायश्चित्तं वदतु। अहम् अनुष्ठामि” इति।

साधुः तं काञ्चित् पताकां दत्त्वा एवमभणत्– “इमां कृष्णपताकां गृहीत्वा धरायाः स्थितानि समस्ततीर्थानि पर्यट। स्वयमपि स्नानं कुरु, तामपि स्नपय। यस्मिन् तीर्थे इयं कृष्णपताका श्वेततामाप्स्यति, तदा तव पापानि अपक्षीणानीति जानातु” इति।

गुरोः आज्ञां शिरसि धृत्वा लुण्ठाकः ततः निरगच्छत्। सः समस्तासु सरित्सु सर्वपवित्रतीर्थेषु च स्वयं स्नानं करोति स्म, पताकामपि मज्जयति स्म। किन्तु तत्र न किमपि वर्णपरिवर्तनं तेन दृष्टम्। सः दुःखितो भूत्वा– ‘मम पापानां प्रायश्चित्तमसम्भवम्। एका हत्यैव महापातकाय, सप्ताशत् हत्याः कथं परिहरेयुः?’ इति एवं विचिन्त्य, समस्ततीर्थेषु स्नात्वा गुरुमुपयान्तुं गच्छति स्म। मार्गमध्ये तत्र घनं वनं प्रविष्टव्यमापतितम्।

अकस्मात् वने तेन आक्रन्दनं किञ्चित् श्रुतम्। दयार्द्रचित्तः सन् सः ध्वनेः अनुगमनं कुर्वन् कञ्चित् वृक्षाणां सञ्चयं प्राप्तवान्। तत्र सः दशलुण्ठाकान् अपश्यत्- ये काञ्चित् सत्कुले जातां कुलवतीं, सुन्दरीं च स्त्रियं आनीय बलात्कारं कर्तुं प्रयतन्ते स्म। तेषां नरपशूनां जाले पतिता सा अबला जलाद् भिन्ना मीनेव, व्याधहस्ते पतिता मृगीव कम्पते स्म। अश्रु विमोचते स्म। तस्याः दयनीयां दशां दृष्ट्वा दस्योः तस्य हृदयं द्रवितमभवत्। तीर्थयात्रया तस्यान्तःकरणं विशुद्धमभवत्। विशुद्धे अन्तःकरणे एव दयायाः सञ्चरो भवति। दयावान् पुरुषः एव परेषां पीडां दृष्ट्वा तदपनेतुं प्रयतते।

पूर्वाभ्यासमनुसृत्य लुण्ठाकः नित्यं खड्गं धरति स्म। सः एवमचिन्तयत्– ‘अस्तु, यथा सप्ताशत्, तथैवाशीतिः। यदि पापानां प्रायश्चित्तः असम्भवः, तर्हि अस्याः आपद्गतायाः अबलायाः उद्धारः कर्तव्य एव।’ इति।

इत्थं विचार्य सः खड्गेन दशानां शिरांसि विच्छिन्नवान्। तदानीम् अक्ष्णोः पुरतः तस्य पताका वर्णं परिवृत्त्य श्वेता अभवत्। लुण्ठाकः अपरिमितानन्देन तामबलां स्वस्थानं प्रापय्य, स्वयं च गुरोः समीपमधावत्, तं च पादयोः पतित्वा प्राणमत्। श्वेतपताकां दृष्ट्वा गुरुरपि तस्य प्रायश्चित्तमभवदिति अबोधत्। गुरुः आशीर्ददन् अपृच्छत् च– “वत्स, कस्मिन् तीर्थे तव पताका श्वेता अभवत्?” इति।

लुण्ठाकः साञ्जलिः– “असितीर्थे, गुरुवर्य।” इत्यवोचत्। सर्वं च वृत्तान्तं गुरुमशंसत्। “दश नरपिशाचान् हत्वा सप्ताशत् सङ्ख्यां अशीतिं कृतवान् तदेयं पताका श्वेताभवत्। कारणं किमत्र?” इति अपृच्छत्।

साधुः हसन् निरगदत्– “पूर्वं कृताः हत्याः त्वया स्वार्थवशं कृताः। दुष्टभावेन च आचरिताः। एता दश तु परार्थाय, दयावशात् च नार्यः रक्षायै कृतवानिति महत् पुण्यमनुष्ठितं त्वया। अनेन कार्येण तव पापानि क्षीणानि।” इति।

लुण्ठाकः अत्यन्तमानन्दितः सन् गुरुसेवायां शेषजीवनं व्यतीतमकरोत्॥

No comments:

Post a Comment