Wednesday 19 July 2017

सँल्लापः-२ - पिपीलिका



पिपीलिका-- (सभयम् आक्रन्दति) रक्ष रक्ष, अहमस्मि भोः। पादं मा निक्षिप।
बालः-- (सावधानो भूत्वा पश्यन्, पादं निःसार्य) अरे, कस्त्वम्? कुतः आक्रन्दसि?
पिपीलिका-- किं मां द्रष्टुं न शक्नोषि? अहं एतावद्बृहद्देहः, महान् च तव पुरतः स्थितः। तथापि न पश्यसि? किं तव अक्षिणी भ्रष्टे, भग्ने?
बालः-- (हसित्वा) अस्तु। त्वं कुम्भकर्ण इव बृहत्कायः। सत्यम्। क्षम्यताम्। नाहं द्रष्टुमपारयम्। मम पादे पतति, त्वं म्रियेथाः। महानपराधः जीवहननमिति माता वदति। पिता तु मां ताडयिष्यति, यद्यहं त्वां हन्यां प्रमादादपि।
पिपीलिका-- सुष्ठु स्तः तव पितरौ। अधुनातनकाले बालान् एवं कः शिक्षयेत्? सादरं मम प्रणामान् तौ प्रति अर्पयतु।
बालः-- (सहासं) आम्। अर्पयामि। अधुना आवां मित्रे। किमङ्गीकरोषि?
पिपीलिका-- (सानन्दम्) आम्। त्वम् अहिंसापरः बालः मम हानिं न करिष्यसीति अहं विश्वसिमि। अतः मित्रकार्ये न कापि विप्रतिपत्तिः।
बालः-- कुत्र गच्छसि मित्र, अधुना?
पिपीलिका-- मम तु सर्वदा आहारान्वेषणमेव किल कार्यम्। तदर्थमेव गच्छामि।
बालः-- आम्। मम कृते मम पितरौ आहारं दत्तः। त्वं तु स्वयमेव श्रमेण अर्जसि। महान् त्वम्।
पिपीलिका-- न किमपि तथा। त्वं तु बालोऽसि। अतः पित्रर्जितं खादसि। यदा वर्धिष्यसे, तदा तु स्वयमेव आहाराय कार्यं करिष्यसि किल।
बालः-- आम्। सत्यं भणसि। अर्जनयोग्यं वयः यदापतिष्यति, तदा न कोऽपि पोषयति खलु।
पिपीलिका-- (हसित्वा) किं सत्यं वदेयम्? तव जननी मोदकान् अपचत् ह्यः। अहमपश्यम्। तानि खादितुं धावामि।
बालः-- (साश्चर्यम्) मम मोदकान् अत्तुं द्रवसि। दुष्ट।
पिपीलिका-- (खिन्नतां निरूप्य) कथमाक्षिपसि माम्? किं तव प्रसवित्री ममाम्बा न भवितुमर्हति? तन्निर्मितान् मोदकान् किमहं स्वदितुं नार्हामि?
बालः-- आमाम्। मम जननी तु बहुकोमलहृदयास्ति। सा जीवमात्रस्य जननीव सर्वान् प्रेम्णा वात्सल्येन च पश्यति। किन्तु त्वं मम मोदकान् भक्षिष्यसि, चेदहं किं वा अशिष्यामि?
पिपीलिका-- कुतः रोदिषि? मम आकारं पश्यसि किल! कियदहं आहर्तुं शक्नोमि? किं तान् मोदकान् सर्वान् खादामि? कुतः स्वार्थबुद्धिः स्वस्मायेव चिन्तयसि?
बालः-- आमाम्। तदपि सत्यमेव। (घटिकां दृष्ट्वा) अधुना मम पठनकार्यमस्ति। माता आह्वयति। अहं गच्छामि। पठनानन्तरं खादामि मोदकम्।
पिपीलिका-- अस्तु। परीक्षां सम्यक् लिखतु। मम मुखे लाला उत्पद्यते। गच्छाम्यहं मोदकादनाय। शुभम्।

No comments:

Post a Comment