भक्तः-- हे भगवन्! अहमागतः। नमः शिवाय। वरं
देहि। कष्टं निवारय।
पूजारी-- कस्त्वं महाभाग! कुतः एवं उच्चैः
क्रन्दसि? मन्दिरोऽयम्। अत्र पवित्रभावेन अन्तःकरणे दैवचिन्तनं कार्यम्।
भक्तः-- अहम् अशान्तः। अहं कष्टे पतितः।
पवित्रभावना कुतः अधुना लोके मनसि वा?
पूजारी-- अलं विवादेन। अन्ये भक्ता विक्षिप्ता
भवेयुः। पश्य, कथं ध्यानमग्नास्ते।
भक्तः-- (परितः विलोक्य) अस्तु। तथैव। किन्त्वहं
नितरां क्रुद्धः भगवते। मम क्लेशकरसमये सः कथं सुखं तिष्ठतीति।
पूजारी-- भगवान् तव दासो न। तव क्लेशानां कर्ता न
सः। तव कर्माणि एव तत्र कारणम्। ईश्वरस्तु सहायार्थमेवास्त्यत्र।
भक्तः-- यदि सर्वस्य कर्ता ईश्वरः, प्रत्येकं
सङ्कल्पे स एवास्ति, तर्हि मम कष्टस्यापि स एव कर्ता।
पूजारी-- तदस्तु। किञ्चिदुच्यताम्। भवान् इतः
पूर्वमत्र न दृष्टः। अधुनैव पश्यामि।
भक्तः-- आम्। एतावन्ति दिनान्यहं व्यापृतः आसम्।
कार्याणि बहूनि आसन्।
पूजारी-- व्यस्तः न। सुखेनासीत्। चिन्ता नासीत्
कापि। सर्वं सकुशलं चलति स्म। अतः भगवान् न स्मृतो भवता।
भक्तः-- यदि सुखेनास्मि, तर्हि भगवतः आवश्यकता
का?
पूजारी-- सत्यम्। तव सुखस्य कर्ता कः? तव
निर्वचनमनुसृत्य भगवानेव किल।
भक्तः-- (किञ्चित् विचिन्त्य) आम्। सत्यमेव। स
एव सर्वस्य सुखस्य दुःखस्य वा कर्ता।
पूजारी-- तर्हि सुखसमये कृतज्ञतार्पणं किं तव
कर्तव्यं नास्ति?
भक्तः-- कुतः पुनः ज्ञापनम्? किं स न जानाति?
पूजारी-- अधुनापि किल जानाति? कुत आगतः ज्ञापयितुम्?
भक्तः-- दुःखमसह्यम्। अतः आगतवान्।
पूजारी-- यदि तव पुत्रः, मित्रं वा एवमेवाचरति,
त्वत्तः लाभं प्राप्य विस्मरति, पुनः आवश्यकतायां सत्यां धावित्वा आगच्छति- तदानीं
तव मनसि कीदृशी भावना जागृयात्?
भक्तः-- भगवान् महान् किल। अहं तु
ह्रस्वबुद्धिः। सः मम सुखं दृष्ट्वा सन्तुष्ट एव भवति इति जानामि। सुखे बालः सर्वं
महतानन्देनानुभवति। बालस्य सुखं विहाय किमन्यत् पित्रोः आनन्दाय कल्पेत? मम बालस्य
सुखानुभव एव मम सुखम्। किमहं बालादपि कृतज्ञताज्ञापनम् अपेक्षे?
पूजारी-- अधुना तु त्वं शक्तः असि। वार्धक्येऽपि
किं पुत्रः तुभ्यं किमपि न ददाति, अन्नं, जलं, अगदं.. इत्यादि, किं तदापि इत्थमेव
चिन्तयसि?
भक्तः-- नैव। मम पुत्रः कदापि तदा न करिष्यति। सः
साधुबालः। ततश्च भगवान् तथा किमपि न पृष्टवान् माम्।
पूजारी-- त्वमपि किल त्वत्पुत्रं किमपि न
पृच्छसि। सः कदापि न करिष्यति तद्विधं कार्तघ्न्यम् इति विश्वसिसि, तथैव भगवानपि
किल। सोऽपि प्रतीक्षते त्वदर्थम्। त्वं नागतः। अतः कष्टं दत्त्वा आनीतवान् इति
चिन्तयतु।
भक्तः-- अवगतमिदानीम्। इतः परं तथा न करिष्यामि।
सुखे कष्टे च भगवन्तं स्मरिष्यामि।
No comments:
Post a Comment