Wednesday 19 July 2017

सँल्लापः-३ - पिपीलिका-२



बाला-- अहो, मातः। पश्य। मधुशीशके पिपीलिकाः सन्ति।
पिपीलिका-- श् श् श्। कुतः आक्रोशसि?
बाला-- मम मधु सर्वं त्वं खादसि। बान्धवान्, मित्राणि, पुत्रपौत्रान् चाहूय मिलित्वा खादसि। किञ्चिदपि मम विषये चिन्तनं नास्ति। तुभ्यं क्रुद्धास्मि।
पिपीलिका-- किं तर्हि अहमेकाकिनी खादामि? सर्वदा अहं मधुररसं तेभ्योऽपि प्रदद्याम्।
बाला-- वयं मानवाः एवं न चिन्तयामः। त्वं मित्र-बन्धु-परिवारजनैः युक्तः एव अन्नमर्जसि। त्वं एकाकिनी कदापि न नन्दसि।
पिपीलिका-- आम्। सङ्घे शक्तिः कलौ युगे किल। वयं सङ्घीभूय कार्यं कुर्मः।
बाला-- सत्यम्। नितरां स्वार्थपरा वयम्। केचित्तु अधुनापि सर्वजीवेषु दयां दाक्षिण्यभावं च प्रदर्शयन्ति। अहं न तादृशी।
पिपीलिका-- अत एव इत्थं क्रोधं प्रदर्शयसि।
बाला-- यावदिष्टं तावत् खादतु, नयतु च। अहं नाक्षिपामि। किन्तु यदा मम मधुखादनेच्छा जागर्ति, तदा त्वं न निर्गच्छेः। तव समस्तपरिवार-निष्प्रेषणाय मम दीर्घः समयः व्यर्थः गच्छति।
पिपीलिका-- आम्। अवश्यं निर्गम्येत एवास्माभिः। अधिकं मधुररसं तु अस्माकमपि हानिमाचरति। किञ्चित् स्वीकृत्य निर्गमिष्यामः, इति स्वबान्धावजनमहं कतिवारं वदामि? न कोऽपि शृणोति। अधुना मधुशीशके कति बान्धवाः हताः, पश्य।
बाला-- (दृष्ट्वा सक्रोधम्) अवश्यम्। इतोऽपि आह्वयतु सर्वान्! मधुरलोभाद् आगत्य म्रियन्ते। तदापि बुद्धिः नोत्पद्यते।
पिपीलिका-- (सप्रश्रयम्) उच्चैः माक्रन्द।
बाला-- अधुना अहं मधुनः भवतां मृतदेहान् कथं निष्कासामि? अहो, बत महत् कष्टम्। धिक् त्वं, तव मधुरपदार्थलोभं, तव बान्धवांश्च।
पिपीलिका-- तव समीपे चालनी अस्त्येव। तया सकृत् मधु सारयतु अन्यशीशके। किमत्र कष्टम्?
बाला-- मास्तु तथा। पिपीलकानां मृतदेहेभ्यः अवाञ्छितपदार्थाः सम्भवन्ति। नाहमिच्छामि तादृक्किञ्चित्। अहं नूतनं मधुशीशकं क्रेष्यामि श्वः। एतत् पातयामि। किञ्चिदेवावशिष्टं किल।
पिपीलिका-- मम कारणेन कियान् क्लेशस्तव। तव तु केवलं धनहानिः। अस्माकं तु प्राणहानिः। “अति सर्वत्र वर्जयेत्।” अस्तु। क्षन्तव्याहम्।
बाला-- तव दोषो न। मम एव। ह्यः मधुशीशकं जलपूर्णस्थाल्यां नास्थापयम् किल। तस्य पिधानमपि सम्यक् न कृतम्। अतः तव बृहत्सैन्येनाकृष्टं शीशकम्। इतः परं सावधानेन भाव्यम्।
पिपीलिका-- आशा नाम काचित् पिशाची अस्मानपि नरके पातयति।
बाला-- सुष्ठु ज्ञातम्। गच्छाधुना। जीव च। एते इव मा म्रियस्व।
पिपीलिका-- अस्तु। गच्छामि॥

No comments:

Post a Comment