Friday 29 June 2018

नाटकम्-२ चोर उत मित्रम्?


पवनः– कश्चन द्वितीयकक्ष्यायाः विद्यार्थी
अनिलः– तस्य मित्रम्
रविः– द्वितीयकक्ष्यायाः अपरः विद्यार्थी, तयोः मित्रम्
वाणी– अध्यापिका १
ममता– अध्यापिका २
स्थाने—पाठ्यकक्ष्या, अध्यापक-प्रकोष्ठः
(कक्ष्यायाम् अन्ये विद्यार्थिनः)

दृश्यम्-1
अनिलः– मम पुस्तकं न दृश्यते।
रविः आम्, गृहे करणीयं कार्यं न कृतं स्यात्। प्रायः। अदर्शनं तु सहजमेव।
अनिलः– तथा नास्ति । अहं आनीतवान् पुस्तकम्। प्रातः दृष्टम्मया। मम स्यूते एव आसीत्।
रविः तर्हि कुत्र गच्छेत्? तस्य पक्षाः उद्भूताः किम्? उत पादौ प्ररूढाः?
पवनः– (हसन्) अवश्यं बहिः जलं पातुं गतं स्यात्।
अनिलः– (सकोपम्) कोऽपि अवश्यं तत् मम स्यूतात् निष्कासितवान् इति मन्ये।
रविः– कः स्यात्? कस्मै अपि दत्तं भवेत्.. ततः विस्मृतं स्यात्।
अनिलः– नैव । न दत्तम्मया।
रविः सम्यक् पश्यतु..। अधः पतितं किम्?
अनिलः– (रुदन्) नास्ति, दृष्टम्। अवश्यं केनापि चोरितम्।
रविः अपि कस्मिंश्चित् सन्देहोऽस्ति?
अनिलः– (चिन्तयन्) कः भवेत्? (स्मरन्) आम्.. अवश्यमेतत् पवनस्य कार्यं स्यात्।
पवनः– (भयेन) अहम्? नाहं चोरितवान्। सत्यं वदामि।
रविः पवनः? स तु साधुबालः! कुतः चौर्यम् अकरिष्यत्? यद्यावश्यकं अवश्यं पृष्ट्वा स्व्यकरिष्यत्। स तु तव मित्रमेव।
अनिलः– तथा न, ह्यः स मया कलहमकरोत्। आवयोः स्नेहः भग्नः। नैषः मन्मित्रमधुना। अवश्यं तस्य स्यूतं पश्यतु। अन्तः भवेत्।
रविः अस्तु। (पवनं प्रति) पवन, दर्शय तव स्यूतम्।
पवनः– (स्यूतं निधाय) न दर्शयामि। नाहं चोरः।
            [तावता कालेन अध्यापिका आगता कक्ष्यायाम्। सर्वे उत्थाय तां नमन्ति सादरम्। सा कक्ष्यायां एकत्र स्थितान् सर्वान् दृष्ट्वा किञ्चित् कोपेन तर्जयति।]
वाणी– किमभवत्? कोलाहलः कुतस्तत्र?
अनिलः– मम पुस्तकं न दृश्यते। तस्मिन्नेव परीक्षार्थं सर्वं लिखितवान्।
वाणी– मिथ्यावादिन्, अहमद्य कार्यस्य अप्रदर्शनेन ताडयामीति भिया तथा वदसि।
अनिलः– नैवार्ये। अवश्यम् अनेन पवनेन चोरितमिति भावयामि। तस्य स्यूतं पश्यतु।
            [वाणी तस्य स्यूतं पश्यति। अन्तः पुस्तकं न दृष्टम्]
वाणी नास्ति अत्र। हस्तं प्रसारय। [इति काष्ठवेनं सारयति]
अनिलः– (भयं दर्शयन्) मास्तु आर्ये। श्वः अवश्यं पुनः कृत्वा आनेष्यामि। (पवनं दृष्ट्वा) अनेनैव चोरितम्। अहं जानामि।
पवनः नाहं चोरः।
            [इति अध्यापिकायाः पुरतः पवनः अनिलं प्रहरति। अनिलः पुनस्तं आहन्ति। कलहः सञ्जातः]
वाणी अहमत्रैव स्थिता। तथापि कलहं कुरुतः।
            [इति द्वावपि प्रहृत्य कक्ष्यायाः बहिः प्रेषयति। कक्ष्या ताभ्यां विना प्रचलति। कक्ष्यान्तकाले वाणी निर्गच्छति। तयोक्तौ द्वावपि अन्तः आगच्छतः।]
अनिलः अनेन कारणेनाहमपि अद्य न पठितवान् पाठम्।
            [पवनं प्रहन्ति। पवनः पुनः अनिलमभिहन्ति ]
रविः (उभावपि निरोद्ध्य) मास्तु। तिष्ठताम्। (इति पवनं पृष्ठे हस्तेन स्पष्ट्वा न्यरुन्धत्। ततः किञ्चित् परीक्षया दृष्ट्वा तं प्रति) युतकं दर्शय रे।
पवनः स्यूतं दर्शितं किल, तत्र किमपि नास्ति।
रविः यदि न चोरः, तर्हि युतकमि अवश्यं दर्शनीयम्। त्वयि चौर्यारोपोऽस्ति। किन्तु न त्वं चोर इति मम विश्वासः। अनिलस्य पुस्तकं तव स्यूते न भवतीति अहं जानामि। तथैव युतकेऽपि न भविष्यति । सप्रमाणं सोऽपि जानातु।
अनिलः– दर्शय।
            [इति पवनस्य युतकं बलात् गृहीत्वा हस्तयोः स्पर्शन्तौ द्वावपि पश्यतः। अन्तः पुस्तकं स्पर्शितम्। ततस्तौ तस्य युतकं उद्घाट्य अन्तः पुस्तकं निष्कासतः]
पश्य, (रविं प्रति) त्वं तु उक्तवान्, स चोरः नास्तीति। अधुना किमभवत्..?
रविः (साश्चर्यम्) किमेतत् पवन, कुतः तस्य पुस्तकं चोरितम्?
पवनः– (सभयम्) नाहं चोरः। न चोरितवान्।
रविः– (हसित्वा) आम्.. केनापि तत्र न्यस्तं स्यात्।
अनिलः– युतकस्यान्तः कोऽपि पुस्तकम् अस्य ज्ञानेन विना कथं स्थापयेत्? एष चौर्यं करोति, पुनः मृषापि वदति। नैतद्युक्तम्।
            [पुनः पवनं समाहन्ति]
पवनः– (अनिलं प्रहरन्) दुष्ट, मां कुतः समाहतवान्?
            [द्वावपि रविणा निरुद्धौ न तिष्ठतः। तथैव कलहं कुरुतः]
रविः तिष्ठताम्। पश्यताम्। आर्या अन्तः आगच्छति। तूष्णीं भवताम्।
            [तौ न श्रुणुतः। विसंवादः प्रचलति। तदैव द्वितीया अध्यापिका ममता अन्तः आगच्छति। अनिलं पवनं  च पश्यति। सर्वे अन्ये विद्यार्थिनः उत्थाय नमन्ति। सा तयोः विवादं पश्यन्ती सहासं तिष्ठति। अनिलः पवनः च किञ्चित् विसंवाद्य पुनः तूष्णीं भूत्वा अध्यापिकां पश्यतः। ततः शिरसी अवनमयतः।]
ममता– युवयोः कलहः यदि समाप्तः, तर्हि अहं पाठं पाठयामि। इतोऽपि समयः आवश्यकः, तर्हि अहं बहिः तिष्ठामि। अस्य समापनानन्तरं वदतु।
            [सर्वे तूष्णीं भवन्ति]
ममता– अस्तु, कलहः अतिपात्यताम्। कक्ष्यानन्तरं पुनः प्रारभेताम्। एवम्? अङ्गीक्रियते?
            [कोऽपि किमपि न वदति। ततः कक्ष्या प्रचलति। कक्ष्यान्तकाले ममता द्वावपि अध्यापक-समावेश-प्रकोष्ठं प्रति नयति। द्वावपि सभयं तत्र गच्छतः। सा रविमपि आह्वयति। सोऽपि गच्छति।

*दृश्यम्-2*
[ममता अन्तः गत्वा आसन्दे उपविशति। त्रयः बालाः तस्याः पुरतः स्थिताः।]
ममता– अधुना अत्र सर्वं संवृत्तं यथातथं वदतु, किमभवदिति। रवे, त्वं वद।
भवनः– आर्ये, अनिलस्य पुस्तकं पवनस्य युतकात् बहिरागतम्। तथापि पवनः चौर्यं नाङ्गीकरोति।
अनिलः– (साश्रु) अनेन कारणेनाहं वाणी-आर्यया ताडनं प्राप्तवान्।
पवनः– (कफोण्यां व्रणं दर्शयन्) सा तु मामपि प्रहृतवती। पश्यतु।
ममता– अहो, इदं तु रक्तं स्रवति। रवे, कार्यालयं गत्वा अस्मै प्रथमचिकित्सा-सामग्रीमानयतु।
            [रविः तूर्णं गच्छति]
ममता– पवन, अत्रागच्छ, [इति तस्य हस्तं गृहीत्वा प्रेम्णा पृच्छति] किमिदं बाधते?
पवनः– (अश्रु मार्जयन्) आम्.. किञ्चित्।
ममता– किं त्वया अनिलस्य पुस्तकं स्वीकृतम्?
पवनः– आम्।
अनिलः– (सकोपम्) तर्हि तदानीं कुतः ‘न स्वीकृतमि’ति उक्तवान्.. मिथ्यावादिन्! दुष्ट!
पवनः– (सक्रोधमाक्रोशन्) त्वं तु चोरितवानिति पृष्टवान्। आर्या तु स्वीकृतवानिति वदति। अहम् अनुक्त्वा स्वीकृतवान्, न पुनः चौर्यमाचरितम्मया।
ममता– (द्वयोः प्रति) अहो, धिक्! अहमस्मि अत्र। अलं क्रोधप्रदर्शनेन। (पवनं प्रति) किमनुक्त्वा स्वीकृतिः चौर्यं नास्ति?
पवनः– नास्ति। अहं पुनः तं प्रत्यर्पयामीति विचिन्त्य स्वीकृतवान्।
ममता– स्वीकरणे कारणं किम्?
            [सः निःशब्दं तिष्ठति। ममता पुनः सानुनयं पृच्छति। अनिलोऽपि तं पश्यति सकुतूहलम्।]
पवनः– (अश्रु मार्जयन् मृदुस्वरेण) एष मम मित्रम्। इष्टतमं मित्रम्। ह्यः आरभ्य विग्रहं कृत्वा मया न भाषते। तस्य मौनम् अहं न सहे। तेन अहं यथाकथमपि भाषे इति उपायं कृतवान्। तस्य पुस्तकव्याजेन यत्किमपि वदेदिति आशया एवम् अनुक्त्वा स्वीकृतवान्। किन्तु... (रोदिति)
ममता– अहो, मा रोदीः। (अनिलं प्रति) किमनेन त्वं विप्रयोगं कृतवान्?
अनिलः– आम्।
ममता– किं कारणम्?
अनिलः– एषः मम अमित्रं रविं प्रति अधिकं स्नेहभावं प्रकटयति। अतः अहं क्रुद्धः। तमहं उक्तवान्, तेन मा स्म वदः, मयैव वद इति। स नाकर्णयति।
पवनः– रविरपि मम मित्रमेव। कथमहं तेन मौनमाचरामि? विवादः कोऽपि न जातः।
            [तदानीं रविः काञ्चन पेटिकाम् आनीय अन्तः प्रविशति। ततः प्रथमचिकित्सासामग्रीं स्वीकृत्य द्वयोः हस्तयोः आहतम् औषधेन उपचरन्ती]
ममता– (अनिलं प्रति) तव रविना कः विवादः?
पवनः– अहं वदामि। रवेः मातुलः विदेशात् क्रीडनकमानीतवान्। ‘तत् नूतनमिति, भग्नं जायेत’ इति तस्य माता कस्मै अपि न दातव्यमिति उक्तवती। अतः सः न दत्तवान्। मामपि न दत्तवान्। अहं तु अवगतवान्। न क्रुद्धवान्। किन्तु अनिलाय क्रीडनकं बह्वरोचत। अदानेन स अत्यन्तं रुष्टः, स्नेहं च भग्वनान्। मामपि तथा कर्तुमुक्तवान्। किन्तु अहं मन्मित्रं कथं त्यजेयम्? भवती एव वदतु।
ममता– (हसित्वा रविं प्रति) किमिदं सत्यम्?
रविः– आम्। एष यथार्थं वदति।
ममता– (अनिलं प्रति) त्वमपि वद। किमिदं सत्यम्?
अनिलः– सत्यमार्ये। पवनः कदापि मृषां न वदति। अहं जानामि।
पवनः– (सविषादं) एतत् जानाति। तथापि मां चोर इति वदति।
ममता– (ईषद्धसन्ती) आम्। अनुक्त्वा स्वीकरणमि चौर्यमेव। उद्दिष्टार्थः यः कोऽपि भवेत्। किन्तु कदापि कस्यापि वस्तु एवं न स्वीकर्तव्यम्। किमवगतम्?
पवनः– (शिरः चालयन्) आम्।
ममता– (अनिलं प्रति) अधुना त्वम् अनयोः द्वयोरपि स्नेहेन भविष्यसीति भावयामि।
अनिलः– आम्। अवश्यम्। किन्तु क्रीडनकस्य अदानेनाहं असन्तुष्टः अधुनापि।
ममता– सत्यम्। ममापि खेदः अस्ति। किन्तु चिन्तयतु- क्रीडनकेन कारणेन मित्रत्वं तु न त्यक्तव्यम्। किल? स्नेहभावः उन्नतः, उत क्रीडनकम्? जनन्याः आज्ञा महती उत क्रीडनकं प्रति तव इष्टभावः? यदि तव माता तथा वक्ष्येत्, त्वं किम् अकरिष्यः?
अनिलः– आम्। मातुः आज्ञा तु अनुल्लङ्घनीया एव।
ममता– किं पवनः चोरः? उत तवानुरागाय प्रतीक्षितम् अत्यन्तं घनिष्ठं मित्रम्?
अनिलः– मित्रमेव। स मदर्थम् आर्यया ताडनमपि प्राप्तवान्। व्रणमपि प्राप्तवान्। मम एव दोषः, तस्य अमित्रं भूत्वा भाषणं न कृतमिति।
ममता– तर्हि अधुना द्वयोरपि मित्रत्वं किं तवेष्टम्?
अनिलः– आम्। इष्टमेव।
ममता– तर्हि हस्तौ प्रसार्य द्वावपि आलिङ्गनीयौ, उत न?
अनिलः– आलिङ्गनीयौ।
ममता– तर्हि आलिङ्ग्येताम्। मिष्टान्नं च खाद्यताम्।
[अनिलः द्वावपि क्षमां याचित्वा आलिङ्गयति। ममता तेभ्यः गृहादानीतान् मोदकान् दत्त्वा कक्ष्यां प्रति प्रेषयति। ते त्रयोऽपि प्रसन्नाः तत्रैव मिष्टान्नं खादित्वा कक्ष्यां गतवन्तः।]