Thursday, 13 September 2018

अनूक्तम्-१६ कुत्रास्ति श्रीरामः


कुत्रास्ति श्रीरामः
    कदाचित् कश्चन महम्मदीयशासकः कञ्चन रामभक्तम् आहूय, अपृच्छत्-- “क्वास्ति तव रामः? दर्शये”ति। रामभक्तः हनूमन्तं प्रार्थयत्। अकस्मात् तत्र अनेके वानराः आगत्य कोलाहलमकुर्वन्। शासकेन “कोऽयमुत्पातः?” इति पृष्टे रामभक्तः अशंसत्-- “प्रभोः आगमनात् पूर्वं परिवारः आगत्य सन्नाहान् करोति किल” इति अवदत्। शासकः ज्ञातापराधः रामभक्तं सत्कृत्य प्रेषयत्।

శ్రీరాముడెక్కడ
    ఒకప్పుడు ఒక మహమ్మదీయ పరిపాలకుడు ఒక రామభక్తుడిని పిలిపించి "నీ రాముడెక్కడ? చూపించు" అని అడిగాడట. దానితో ఆ రామభక్తుడు హనుమను వేడుకున్నాడు. అంతే! అనేక కోతులు తరలి వచ్చి అల్లకల్లోలం చేయసాగాయి. ఆ రాజు "ఇదేం గోల?" అని అడిగితే "ప్రభువు రావాలంటే పరివారం ముందు వచ్చి ఏర్పాట్లు చెయ్యాలిగా" అన్నాడు రామభక్తుడు. ఆ రాజు తన తప్పు తెలుసుకొని ఆ రామభక్తుని సకల మర్యాదలు చేసి పంపాడు.

कहाँ है श्रीराम?
    एकबार कोई मुसलमान परिपालक ने किसी राम भक्त को बुलाकर पूछा- “तुम्हारा राम कहां है? दिखाओ।” रामभक्त ने हनुमान जी की प्रार्थना की। अचानक से वहां बहुत सारे वानर आ कर कोलाहल करने लगे। उस शासक ने जब पूछा कि- “यह कैसा उत्पात है?” तो रामभक्त ने कहा- “महाराज के आने से पूर्व परिवार आकर तैयारियां करता है ना।” उस राजा ने अपना अपराध जान लिया और रामभक्त को सत्कार करके भेजा।

Wednesday, 12 September 2018

विचारः-३ माता-पुत्रः धनं, धर्मश्च

माता-पुत्रः धनं, धर्मश्च

समस्या--
बाल्ये माता मां वदति स्म यदि अन्नं खादति तर्हि मधुरं क्रेतुं धनं ददामि इति!!
इदानीं सा वदति गृहावश्यार्थं धनं यच्च नोचेत् पेयजलमपि न ददामि इति 
हा हन्त !! माता अपि परिवर्तिता।

समाधानम्--
आम्। किन्तु सा अन्तः यथापूर्वं स्थिता स्यात्। पुत्रं परिवर्तयितुं मातुः परिवर्तनमावश्यकं भवेत्। अतः परिवर्तनं रूपयति प्रायः..।
*एषः प्रायः गृहे शयनमेव कुर्वन् अस्ति इति मन्ये।
गृहे उपयोगार्थं धनं तु तेन देयमेव। सः पुत्रस्य धर्मः एव। स्वधर्मं स न निर्वर्तयतीति सापि धर्मनिर्वहणं त्यजति।
मातरं यदि कोपि किमपि आक्षिपति, तर्हि अन्यपक्षोपि वक्तव्यः किल।।

विचारः-२ भाग्यमुत पुरुषार्थः-

प्रश्नः-
सिंहो बली गिरिगुहागहनप्रवासी।
वासोदरे वसति भूमिभृतां बिडालः।।
नो पौरुषं कुलमपि प्रचुरा न वाणी।
दैवं बलीय इति मुञ्च सखे विषादम्।।


किं मन्यन्ते विद्वांसः विषयेऽस्मिन् ? इति जिज्ञासा ।

समाधानम्-

सन्दर्भमाश्रित्य एतानि पद्यानि विरच्यन्ते। लोके, यत्र भाग्यं बलवत्, तत्र भाग्यम्। यत्र पुरुषार्थं, तत्र तत्। पुरुषार्थं प्रशंसन्तः बहवः श्लोकाः मया दृष्टाः।
मनुष्यस्य भाग्यं पूर्वमाचरितैः कर्मभिः एव निर्णीयते इति वदन्ति।
यत् सर्वं इदानीं स आचरति, तत् अग्रिमकर्म भूत्वा भाग्यं निर्णयति।
किन्तु अत्र यत् भाग्यमिति वदन्ति, तस्य कारणमन्यत् निरूपितम्। अतः सान्दर्भिकपद्यमिव भाति। सिंहः बली किन्तु क्रूरःपशुः। बिडालः अपि मांसमत्ति किन्तु मनुष्यान् न हन्ति। अतः मनुष्येषु सः स्वेच्छया विहरति। अनेन ज्ञायते यत् - गुणः अत्र प्रधान इति। किन्तु कविः तत् भाग्ये धारयति।

सँल्लापः -९ बालिका, गौश्च

सँल्लापः  - ९ 

बालिका-- हे गौः, अपि त्वं संस्कृतं जानासि?
गौः-- आम्, किं मम मुखं दृष्ट्वा तथा न भासते?
बालिका-- अहो, तर्हि तव नाम वद।
गौः-- मम नाम गौः। धेनुरपि तत्पर्यायः।
बालिका-- अहो, त्वं तव नामपर्यायपदान्यपि जानासि? किममरम् अपठः?
गौः-- आम्.. अमरे मद्विषयकः श्लोकः एवमस्ति-- माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी, अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नौचिकी॥ इति।
बालिका-- (साश्चर्यम्) अहो तव उच्चारणस्पष्टता! अहं सन्तुष्टास्मि। तानि पदानि पृथग्वद..
गौः-- किं मम परीक्षां करोषि? अहह.. अवश्यं वदामि। किमनेन अमरमात्रेण? अहं मम कोशज्ञानं प्रदर्शयामि। शब्दकल्पद्रुमात् उद्धरामि- श्रुणु। अमरस्तूक्तः ततश्च- “स्त्रीगोः पर्य्यायः ।[...] माहेन्द्री १० इज्या ११ धेनुः १२ अघ्ना १३ दोग्ध्री १४ भद्रा १५ भूरिमही १६ अनडुही १७ कल्याणी १८ पावनी १९ गौरी २० सुरभिः २१ महा २२ निलिनाचिः २३ सुरभी २४ अनड्वाही २५ द्विडा २६ अधमा २७ । इति शब्दरत्नावली ॥ बहुला २८ मही २९ सरस्वती ३० । इति जटाधरः ॥ उस्रिया ३१ अही ३२ अदितिः ३३ इला ३४ जगती ३५ शर्करी ३६ । इति वेदनिघण्टौ २ अध्यायः ॥
बालिका-- (अक्षिणी विस्तार्य) अहो.. कियद् ज्ञानं तव!!
गौः-- (सतृप्ति) एतत् तु अत्यन्तं प्राथमिकम्। किं जानासि, महाभाष्यकारेण प्रस्तावितेषु शब्देषु अहमेव सर्वप्रथमा।
बालिका-- (सदैन्यं) तन्न पठितवत्यहम्। यदाहं वर्धिष्ये, तदा मम पिता मां विश्वविद्यालयं प्रवेशयिष्यति। तदानीं पठिष्यामि।
गौः-- अस्तु। तावत् पर्यन्तं अहम् न प्रतीक्षे। अधुनैव व्याहरामि- स तु मम लक्षणानि एवं वदति।
“अथ गौरित्यत्र कः शब्दः?” इत्यारभ्य द्रव्य-क्रिया-गुण-आकृतीश्चोक्त्वा अन्ते एवं निष्कर्षयति- “कस्तर्हि शब्दः?
येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां सम्प्रत्ययो भवति स शब्दः गौः।” इति।
बालिका-- त्वं तु विदग्धा। अहं नन्दामि त्वया वार्तया। माता वदति, त्वया सह भवितव्यमिति। अधुना मया ज्ञातं कुत इति।
गौः-- (हसित्वा) अहं तु भाष्यकारोक्तदिशा मम अपभ्रंशनामान्यपि जानामि। “तद्यथा- गौरित्यस्य शब्दस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः”.. इति मां पतञ्जलिः प्रस्तौति। किं ज्ञातवत्यधुना मम प्रभावम्?
बालिका-- (सहासम्) आमाम्.. पश्यामि..त्वं तु महत्यसि। कदापि त्वां न त्यजामि। किं मम मित्रं भवसि?
गौः-- आम्.. ज्ञानेन नन्दन्ती त्वमतीव मुग्धासि। अहमपि त्वयि स्निह्यामि।
बालिका-- मम सौभाग्यमिदम्। सर्वदा आवां मिलित्वा एवमेव वार्तालापं कुर्वः।
गौः--  अवश्यम्।
बालिका-- अहो, अहं त्वां चुम्बितुमिच्छामि।
गौः-- (हसति)

भाषालेखः-२ संस्कृतशिक्षणोपायाः

संस्कृतशिक्षणोपायाः
संस्कृतं ज्ञातुं सर्वे इच्छन्ति। कथं सम्यक् संस्कृतभाषापारङ्गत्यं प्राप्तुं शक्नुमः? भाषापठनावगमन-सामर्त्येन सह लेखन-सम्भाषणयोः कौशलमपि वर्द्धते।
            तदर्थं प्रथमं प्राथमिकं ज्ञानमावश्यकम्। विभक्तयः, क्रियारूपाणि, कृदन्तानि, विशेषण-विशेष्यभावाः, कर्मणि-कर्तरि-प्रयोगाः, सन्धयः, समासाश्च सम्यक् ज्ञातव्याः। ततः पश्चादेव संस्कृतभाषणाय यतितव्यम्।

ततश्च-
1. भाषणाय श्रवणमत्यन्तम् आवश्यकम्। यावत् श्रुणुमः तावत् वचने क्षमता जागर्ति। अतः भाषणानि श्रोतव्यानि।
2. प्रतिदिनं गद्यं (वाक्यरूपपाठं) किञ्चित् स्वीकृत्य अर्थस्य मननपूर्वकं शनैः शनैः उच्चैः पठितव्यम्।
3. प्रतिदिनं गद्यं (वाक्यरूपपाठं) किञ्चित् स्वीकृत्य उच्चैः वदन् पश्यन् लिखेत्।
4. प्रतिदिनं वाक्यपञ्चकमवश्यं स्वयं लेखनीयम्। यावत् मातृभाषायाः भावितं संस्कृते वक्तुं न पारयति, तावत् प्रयतितव्यम्।
5. प्रथममेव गीतानुवादादिकाय न प्रयतितव्यम्। तत्र क्रमेण अभ्यासः युक्तः। कठिनस्थायि वस्तु न स्वीकर्तव्यम्।
6. श्लोकान् अन्वयसहितान् पठन् वाक्यनिर्माणनं द्रष्टव्यम्। तत् पश्यन् पुनः अर्थस्य विचारं कुर्यात्। तानि पदानि पुनः श्लोके कुत्र सन्तीति द्रष्टव्यानि। कस्य पदस्य कोर्थः, कथं प्रयुक्तः इति चिन्तनसहितं द्रष्टव्यम्। गीताप्रेस्-गोरखपुरस्य पुस्तकानि सम्यग् मूलमनुसृत्य अनूदितानि भवन्ति। एतदर्थं ते उपयुक्तानि भवन्ति।
7. संस्कृते अनूदितान् लेखान् स्वीकृत्य प्रतीपं पठितव्यम्। अनुवादं प्रथमं पठित्वा ततः मूलं पठेत्।
8. यत्किमपि नूतनं पदं पश्यति, तत् प्रयुज्य वाक्यं निर्मातव्यं, मनसि एव। तस्य लिङ्गं मनसि ध्यातव्यम्।
9. मातृभाषायाः आङ्ग्लस्य वा चतुर्थायाः पञ्चमायाः वा कक्ष्यायाः पाठ्यपुस्तकानि स्वीकृत्य कथाः, लेखान् संस्कृते अनुवादनं कर्तव्यम्। तेषां पदानाम् अन्वेषणाय प्रयतमानः सन् तस्य पठनसमये पुनः तस्मिन् भावे, पदे च दृष्टिः पतति।
10. संस्कृते लिङ्ग-वचन-विभक्तिदोषाः प्रायः अधिकाः भवन्ति। सर्वनामप्रयोगेषु, विशेषणविशेष्यभावेषु, कर्मणि-कर्तरि-प्रयोगेषु, प्रत्ययप्रयोगेषु च दोषाः अधिकाः भवन्ति। तान् प्रयोगान् भाषायां दृष्ट्वा मनःपूर्वकं अपाकुर्यात्।
11. संस्कृतभाषणं श्रुण्वन् लेखनाय प्रयतितव्यम्। (शृङ्गेरीशङ्कराचार्यस्य भाषणानि यूट्यूब्-इत्यत्र सन्ति)
https://www.youtube.com/watch?v=KbDmqTFsUcY&t=547s
https://www.youtube.com/watch?v=pbpNTarXg_4&t=433s
https://www.youtube.com/watch?v=3jGdMnhyuJk&t=285s
https://www.youtube.com/watch?v=JltBTuHURLQ&t=116s
https://www.youtube.com/watch?v=QnHP9yO2Dpk
https://www.youtube.com/watch?v=qD15ZJ3r3hk
12. संस्कृते भगवतः स्तोत्राणि अत्यन्तमुपयुक्तानि। तानि अध्ययनदिशा पठितव्यानि।

--------------------

సంస్కృతం నేర్చుకునేందుకు కొన్ని సూచనలు--
సంస్కృతం నేర్చుకోవాలని అందరూ కోరుకుంటారు. బాగా సంస్కృతభాష పరిజ్ఞానాన్ని ఎట్లా పొందగలం?
          దాని కోసం మొదలు ప్రాథమిక స్థాయి జ్ఞానం కావాలి. విభక్తులు, క్రియారూపాలు, కృదంతాలు, విశేషణ-విశేష్యభావాలు, కర్మణి-కర్తరి-ప్రయోగాలు, సంధులు, సమాసాలు బాగా తెలియాలి. తరువాతే సంస్కృతభాషణానికి ప్రయత్నించాలి.
1. భాషణం కోసం శ్రవణం చాలా ఆవశ్యకం. ఎంత వింటామో అంత మాట్లాడే సమర్థత కలుగుతుంది. అందువల్ల సంస్కృతంలో ఉపన్యాసాలను వినాలి.
2. ప్రతిదినం గద్యం (వాక్యరూపంలో ఉన్న పాఠం) కొద్దిగైనా తీసుకుని అర్థం మననం చేస్తూ- తక్కువ వేగంతో, పైకి చదవాలి.
3. ప్రతిదినం గద్యం (వాక్యరూపంలో ఉన్న పాఠం) కొద్దిగా తీసుకుని చదువుతూ వ్రాయాలి.
4. ప్రతిదినం ఐదు వాక్యాలైనా తప్పకుండా స్వయంగా వ్రాయాలి. మాతృభాషలో భావించిన దాన్ని సంస్కృతంలో మాట్లాడగలిగేంతవరకు ప్రయత్నించాలి.
5. మొదట్లోనే గీతానువాదాలు చేయాలని ప్రయత్నించరాదు. ఏదైనా క్రమంగా అభ్యాసం చేయటం మంచిది. కఠిన స్థాయిలో వస్తువును తీసుకోకూడదు.
6. అన్వయసహితంగా ఉన్న శ్లోకాలను చదవుతూ వాక్యనిర్మాణనం గమనించాలి. అది చూస్తూ మళ్ళీ అర్థాన్ని విచారిస్తూ సాగాలి. ఆ పదాలు తిరిగి శ్లోకంలో ఎక్కడ ఉన్నాయో చూడాలి. ఏ పదానికి ఏ అర్థమో ఎట్లా ప్రయోగించాలో- చింతన చేస్తూ చూడాలి. గీతాప్రేస్-గోరఖపుర్ వారి పుస్తకాలు (హిందీలో) బాగా మూలానికి అనుగుణంగా అనువదింపబడ్డాయి. ఈ విషయంలో అవి చాలా ఉపయుక్తంగా ఉంటాయి.
7. సంస్కృతంలో అనువదింపబడిన లేఖలను తీసుకుని తిరగలి చదవాలి- అంటే అనువాదం ముందు చదివి, అప్పుడు మూలం చదవాలి.
8. ఏదైనా నూతన పదం కనిపిస్తే, అది ప్రయోగించి వాక్యం నిర్మాణం చేసుకోవాలి- మనసులోనే. దాని లింగం కూడా మనసులో ఓసారి అనుకోవాలి.
9. మాతృభాషాలో లేదా ఆంగ్లభాషలో కానీ నాలుగు లేదా ఐదవ తరగతి పాఠ్యపుస్తకాలను తీసుకుని కథలను, లేఖలను సంస్కృతంలోనికి అనువాదనం చేయాలి. ఆ పదాలను అన్వేషించటానికి ప్రయత్నిస్తూంటే, ఏదైనా చదివినప్పుడు ఆ భావం దొర్లితే ఆ భావంపై, పదం పై దృష్టి పడుతుంది.
10. సంస్కృతంలో లింగం-వచనం-విభక్తి దోషాలు బాగా అధికంగా అవుతుంటాయి. సర్వనామప్రయోగాలలో, విశేషణ విశేష్యభావాలలో, కర్మణి-కర్తరి-ప్రయోగాలలో, ప్రత్యయప్రయోగాలలో దోషాలు అధికంగా అవుతాయి. ఆ ప్రయోగాలను భాషలో చూసి దృష్టిపూర్వకంగా తొలగించాలి.
11. సంస్కృతభాషణం వింటూ వ్రాసేందుకు ప్రయత్నించాలి (శృంగేరీశంకరాచార్యుల భాషణలు యూట్యూబులో ఉన్నవి)
https://www.youtube.com/watch?v=KbDmqTFsUcY&t=547s
https://www.youtube.com/watch?v=pbpNTarXg_4&t=433s
https://www.youtube.com/watch?v=3jGdMnhyuJk&t=285s
https://www.youtube.com/watch?v=JltBTuHURLQ&t=116s
https://www.youtube.com/watch?v=QnHP9yO2Dpk
https://www.youtube.com/watch?v=qD15ZJ3r3hk
12. సంస్కృతంలో భగవంతుని స్తోత్రాలు ఎంతో ఉపయుక్తమైనవి. అవి అధ్యయనంగా పఠించాలి.

अनूक्तम्-१५ समर्थः असमर्थः च

समर्थः असमर्थः च

कदाचित् ग्रामसीम्नि क्षेत्रे द्वौ बालौ धावन्तौ खेलतः स्म। ज्येष्ठः दशहायनः। कनीयः षड्वर्षीयः। खेलने धावने च अदृष्ट्वा ज्येष्ठः कूपे पतितः। कूपः अगाधः। तत्र कोऽपि नासीत् साहाय्यार्थम् । जले मज्जन्, उद्गच्छन् च आक्रोशति स्म ज्येष्ठः। अवरजः काञ्चित् रज्जुयुक्तां द्रोणीं दृष्टवान्। तदुत्थाप्य कूप्यां पातितवान्। भ्रातरं तद्ग्रहीतुमुक्तवान्। अग्रजः तद्गृहीतवान्। अनुजः यथाशक्ति तां रज्जूं तत्र वृक्षे सम्बद्ध्य शनैः शनैः आक्रष्टुमारभत। अर्धघण्टायां ज्येष्ठः बहिरागच्छत्।
    द्वावपि सानन्दं ग्रामं गत्वा वृत्तं सर्वमुक्तवन्तौ। किन्तु केऽपि तं न विश्वसन्ति स्म। ‘षड्वर्षीयः कथं दशवर्षीयं बहिरानयेत्? तदपि कूप्याः? असाध्यमिदम्!’ इति उक्तवन्तः सर्वे। किन्तु कश्चिदेकस्तु इदं सत्यमिति स्व्यकरोत्। कथमिदं शक्यम्? इति पृष्टे स उक्तवान्- “‘अहं बलहीनोऽस्मी’ति कनीयः न जानाति। ‘त्वम् एतस्मै कार्याय अशक्तोऽसि’, ‘एतत्त्वया न साध्यते’- इति वा वक्तुं तत्र कोऽपि नासीत्। अतः सः अकरोत्। यदि कोऽपि तमित्थं वदेत्, सः साहाय्यार्थं ग्रामं प्रति धावेत्, तदन्तरे ज्येष्ठः म्रियेत। ‘त्वमसमर्थः, अशक्तः’ इति वक्तुं कस्मिन्नपि अन्तिके न तिष्ठति नरः यत्किञ्चित् कर्तुं पारयेत। कूपी वा भवतु, जीवनं वा।” इति।

--------------------------

సమర్థుడు అసమర్థుడు
 
ఊరి బయట పొలం దగ్గర ఇద్దరబ్బాయిలు పరుగులు పెట్టి ఆడుకుంటున్నారు. ఒకడు పదేళ్ల వాడు. ఇంకొకడు ఆరేళ్ల వాడు. పెద్దోడు పరుగెడుతూ చూసుకోకుండా బావిలో పడిపోయాడు. బావి చాలా లోతు. చుట్టుపక్కల ఎవరూ సహాయానికి లేదు. నీట మునిగి తేలుతూ కేకలేస్తున్నాడు పెద్దవాడు. చిన్నోడు ఒక తాడు కట్టిన బొక్కెనను చూశాడు. దాన్ని బావిలోకి విసిరాడు. అన్నను తాడును పట్టుకోమన్నాడు. అన్న పట్టుకున్నాడు. చిన్నోడు తన శక్తినంతా కూడగట్టుకుని తాడును ఒక చెట్టుకి కట్టి పైకి లాగడం మొదలు పెట్టాడు. ఒక అరగంటలో పెద్దోడు బయటకు వచ్చాడు.
    ఇద్దరూ ఆనందంగా ఊళ్లోకి పోయి వాళ్లకు జరిగిందంతా చెప్పారు. కానీ ఊళ్లో ఎవరూ నమ్మలేదు. ఆరేళ్ల వాడు పదేళ్ల వాడిని లాగడమేమిటి? అందునా బావి నుంచా? అసాధ్యం ఇది..!- అని అన్నారు. కానీ ఒక వ్యక్తి మాత్రం నమ్ముతాను అన్నాడు. ఎలా సాధ్యమిది? అని అడిగితే చెప్పాడు- "తనకి అంత బలం లేదన్న సంగతి చిన్నోడికి తెలియదు. ఒరే, నువ్వు చేయలేవురా, అది నీవల్ల సాధ్యం కాదురా- అని చెప్పేవారెవరూ కూడా అక్కడ లేరు. కాబట్టి వాడు చేయగలిగాడు. ఒకవేళ ఎవరైనా అట్ల చెప్పే వాళ్లుంటే వాడు సహాయం కోసం ఊళ్లోకి పరిగెత్తేవాడు. పెద్దోడు చచ్చిపోయి ఉండేవాడు. 'నీవల్ల కాదు' అని చెప్పేవాడు లేకుంటే మనిషి ఎంత పనైనా చేస్తాడు. అది బావైనా, బతుకైనా అంతే..."
--------------------------
 समर्थ और असमर्थ

एक बार किसी गाँव के बाहर खेत में दो बालक दौड़ते हुए खेल रहे थे। बड़ा वाला दस साल का और छोटा वाला छे साल का। खेलते समय दौड़ते हुए, बिना देखे, बड़ा वाला कुए में गिर गया। वह कुआ बहुत ही गहरा था। वहां पर कोई भी सहाय कार्य के लिए नहीं था। पानी में डूबते हुए और बाहर आते हुए बड़ा लड़का चिल्ला रहा था। छोटे वाले ने एक रस्सी से बंधे बाल्टी को देखा। उसको उठाकर कुएं में फेंका। अपने भाई को उसे पकड़ने को कहा। बड़े ने उसे पकड़ लिया। छोटे वाले ने यथाशक्ति उस रस्सी को वहां किसी पेड़ से बांधकर धीरे-धीरे खींचना शुरु किया। आधे घंटे में बड़ा वाला बाहर आ गया। दोनों ने बहुत ही आनंदित होकर गांव जाकर सारी घटना सभी को सुनाई। पर किसी ने उन पर विश्वास नहीं किया।
‘छे साल का बालक दस साल वाले को कैसे बाहर ला सकता है? वह भी कुवे से? यह असत्य है’ ऐसा सभी ने कह डाला। पर किसी एक ही व्यक्ति ने इसे सच माना। ‘यह कैसे संभव है?’ ऐसा पूछने पर उसने बताया- “मैं बलहीन हूं- यह बात छोटा वाला नहीं जानता। ‘तुम इस कार्य के लिए अशक्त हो। यह कार्य तुमसे संभव नहीं है’। ऐसा कहने के लिए वहां पर कोई नहीं था। इसीलिए उसने किया। यदि कोई ऐसा उससे कहता, तो वह सहायता के लिए गांव के प्रति दौड़ता और उसी के बीच बड़ा वाला मर जाता। ‘तुम असमर्थ हो, तुम अशक्त हो’ ऐसा कहने के लिए किसी के पास कोई नहीं रहता तो, वह व्यक्ति कुछ भी कर सकता है। चाहे वह कुआं हो, या जीवन हो।”
[वाट्साप पर प्राप्त किसी सन्देश का अनुवाद ]

अनूक्तम्-१४ सुन्दरं चित्रम्

सुन्दरं चित्रम्
     कश्चन राजा एकाक्षः, एकपाच्च आसीत्। सः स्वसुन्दरं चित्रमालेखितुं चित्रालेखकानपृच्छत्। परन्तु कोऽपि संसिद्धः नासीत्। कथं ते चित्रे तं विकृताक्षपादं सुन्दरं दर्शयेयुः? तेषु कश्चन चित्रालेखनाय अङ्गीचकार, सुन्दरं च चित्रमालिलेख। अद्भुतं तच्चित्रं सर्वान् आश्चर्यमग्नान् अकरोत्। सः राजानम् आखेटे लक्ष्यभेदनाय एकं नेत्रं निमील्य, एकं पादं अवनम्य स्थितमिव आलिखितवान्।
    वयं सर्वे अन्येभ्यः चित्राणि इत्थं कुतः नालेखयामः, यत्र तेषां दोषाः गोपिताः, गुणाश्च प्रकटिताः भवेयुः?
----------------------

అందమైన చిత్రం

     ఒక రాజు ఉండేవాడు. అతడికి ఒకే కన్ను, ఒకే కాలు. అతడు తన చిత్రాన్ని అందంగా గీయమని చిత్రకారులను అడిగాడు. కానీ అందుకు ఎవరూ సిద్ధం కాలేదు. కళ్ళు కాళ్లు వికృతంగా ఉన్నవాడిని చిత్రంలో అందంగా ఎట్లా చూపించాలి? వారిలో నుండి ఒక ఒకడు మాత్రం చిత్రలేఖనానికి అంగీకారం తెలిపాడు. చిత్రాన్ని గీశాడు కూడా. అద్భుతమైన ఆ చిత్రం అందరినీ ఆశ్చర్య చకితుల్ని చేసింది. అతడు రాజును వేటలో లక్ష్యం వేధించటానికి గాను ఒక కన్ను మూసి, ఒక కాలు ముడుచుకుని కూర్చున్నవాడిలాగా చిత్రించాడు.
    మనము అందరము ఇతరుల చిత్రాలను వారి దోషాలు కప్పబడి, గుణాలు ప్రకటం అయ్యేవిధంగా ఎందుకు వేయకూడదు?
----------------------

सुन्दर चित्र
     एक राजा था जिसके सिर्फ़ एक आंख और एक ही पैर था। वह अपना सुन्दर सा चित्र बनाने के लिए चित्रकारों को पूछा। पर कोई तैयार नहीं था। भला किसी विकृत आंख और पैर वाले को सुंदर कैसे दिखाएं कोई? उनमें से एक ने चित्र लेखन के लिए सम्मति दी और एक सुंदर चित्र बनादिया। उस अद्भुत चित्र ने सबको आश्चर्यचकित किया। उसने राजा को शिकार में लक्ष्यभेद के लिए एक आंख बंद करके, एक पैर को मोड़ कर बैठा हुआ सा चित्रित किया।
    हम सब दूसरों के चित्रों को इस प्रकार क्यों नहीं बनाते, जहां उनके दोष छुप जाएं और गुण प्रकटित हो जाएं?

अनूक्तम्-१३ रक्षाबन्धने विशेषप्रसङ्गः

रक्षाबन्धने विशेषप्रसङ्गः

भ्राता :- कः उपहारः इष्यते त्वया?
भगिनी :- किञ्चिद्वचनं ददातु, तेनालम्।
भ्राता :- कीदृग्वचनम्??
भगिनी :- कदापि पितरौ वृद्धाश्रमे न त्यक्ष्यसीति..
भ्राता :- त्वमपि वचनं देहि। तव श्वशुरौ पुत्राद् दूरं न करिष्यसीति..!
-----------------
रक्षाबंधन विशेष


भाई :- तुझे उपहार में क्या चाहिए?
बहन :- बस एक वचन चाहिए..।
भाई :- कैसा वचन?
बहन :- कभी भी माँ बाप को वृद्ध आश्रम छोड़कर नही आएगा..
भाई :- तु भी वचन दे। अपने सास-ससुर को उनके लड़के से दूर नहीं करेगी।

अनूक्तम्-१२ श्रद्धा वाई-फ़ाई इव

श्रद्धा वाई-फ़ाई इव
(संस्कृतम्)
प्रश्नः एवमस्ति,
"ईश्वरस्तु नितरां न दृश्यते.. विश्वासः कथं भवेत्?"
उत्तमं समाधामेवं लब्धम्…
श्रद्धा वाई-फ़ाई इव भवति। नैव दृश्यते…
परं साधुना कूटशब्देन संयोगः अवश्यं भवति।"
------------------

प्रश्न है कि,
"ईश्वर तो दिखाई भी नहीं देते... विश्वास कैसे करूँ?"
सुंदर जवाब मिला
श्रद्धा वाई-फ़ाई कि तरह होती है दिखती तो नहीं है…     
पर सही पासवर्ड डालो तो कनेक्ट हो जाते हो।"

अनूक्तम्-११ भ्रामकतर्कः

भ्रामकतर्कः 

अध्यापिका: “भ्रामकतर्कस्य किञ्चिद् उदाहरणं देयम्।”
विद्यार्थी: “श्रीरामः, आर्ये”
अध्यापिका: “कथम्!!?? विशदयतु?”
विद्यार्थी: “वामपक्षिणां मते श्रीरामः अस्ति, यदा शूर्पणखायाः प्रस्तावः भवति। परन्तु यदा विषयः रामसेतोः, तदा श्रीरामः केवलः काल्पनिकः। श्रीरामस्य अस्तित्वं पुनः सत्यं, यदा सन्दर्भः सीतायाः अग्निप्रवेशस्य शम्बूकस्य वा भवेत्। परन्तु सः नितरां नासीत्, यदि रामजन्मभूमेः प्रसङ्गः भवति।
अतः सः कश्चिद् पुरुषः यः कदाचित् शून्यः, कदाचित् च पूर्णः। एवं एतद् भ्रामकम्। ततः भ्रामकतर्कस्य सुन्दरं उदाहरणं संसिद्ध्यति।”
अध्यापिका: 👏
[वाट्साप-तः प्राप्तस्य आङ्ग्लसन्देशस्यानुवादः]
-------------------
 
భ్రామక తర్కం

అధ్యాపకురాలు: “భ్రామక తర్కానికి ఏదైనా ఒక ఉదాహరణ చెప్పు।”
విద్యార్థి: “శ్రీరాముడు, మహోదయా”
అధ్యాపకురాలు: “ఎట్ల!!?? విస్తారంగా చెప్పు?”
విద్యార్థి: “మన వామపక్షుల లెక్క ప్రకారం- శూర్పణఖ గురించి మాట్లాడేవేళలో శ్రీరాముడు నిజంగా ఉన్నాడు। కానీ రామసేతువు వంతు వచ్చినప్పుడు శ్రీరాముడు కేవలం కాల్పనిక వ్యక్తి। సీతమ్మవారి అగ్నిప్రవేశం, శమ్బూకుని ప్రస్తావం వచ్చినప్పుడు శ్రీరాముడి అస్తిత్వం మళ్ళీ సరైనదే। కానీ రామ జన్మభూమి సందర్భంలో మాత్రం ఆయన అసలు లేడు।
అందువల్ల ఆయన ఒకసారి శూన్యం మరోసారి పూర్ణం మధ్య తిరగాడే విచిత్ర వ్యక్తి। కనుక ఇది భ్రామకత. భ్రామక తర్కానికి సరైన ఉదాహరణ కూడా।”
అధ్యాపకురాలు: 👏
[వాట్సాప్ లో వచ్చిన ఓ ఆంగ్ల సందేశానికి తెలుగు అనువాదం]

-------------------

भ्रामक तर्क 

अध्यापिका: “भ्रामक तर्क का कोई उदाहरण दो।”
विद्यार्थी: “श्रीराम, महोदया”
अध्यापिका: “कैसे!!?? विस्तार से बताओ तो?”
विद्यार्थी: “हमारे वामपक्षियों के हिसाब से श्रीराम रहे, जब शूर्पणखा की बात हो। पर जब रामसेतु की बारी आती है तो श्रीराम केवल काल्पनिक है। श्रीराम का अस्तित्व एक बार और सही है, जब सीताजी का अग्निप्रवेश एवं शम्बूक की बात होती है। पर वह कभी थे ही नहीं, जब सन्दर्भ राम जन्मभूमि की हो।
अतः यह कोई ऐसा व्यक्ति है, जो कभी तो शून्य है तो कभी पूर्ण। अतः यह भ्रामक है और भ्रामक तर्क का सटीक उदाहरण सिद्ध बनता है।”
अध्यापिका: 👏
[वाट्साप से प्राप्त अंग्रेजी सन्देश का अनुवाद]
-------------------

Fuzzy logic 

Teacher: “Give me an example for fuzzy logic”
Student: “Rama ma’am”
Teacher: “How!!?? Care to explain?”
Student: “As per our libtards, Rama existed when they talk about Shurpanaka. But he is a mere fiction while talking about RamaSethu. He, once again, exists when they discuss about Seetha AgniPravesha and Shambuka. But, he never existed, while we talk about Ram Janmabhumi.
So he is someone who is a 0 and a 1, intermittently. Hence he is fuzzy and thereby is the best example for fuzzy logic”
Teacher: 👏
~RM Subramanya

अनूक्तम्-१० तृष्णा

तृष्णा

    कश्चन वणिग् आसीत्। सः भारवाहकयाने तण्डुलप्रसेवान् नीत्वा गच्छति स्म। कश्चन प्रसेवः स्खलित्वा अपतत्। केचन पिपीलकाः आगत्य १०-२० धान्यकणिकानि अहरन्। केचन मूषकाः मुष्टिमितं खादित्वा अगच्छन्। केचन पक्षिणः आगत्य किञ्चित् धान्यं भक्षयित्वा अडयन्त। केचित् गावः समागताः, द्वित्रि-किलो(kilogram)मितं खादित्वा निरगच्छन्। कश्चन मनुष्यः आगत्य पूर्णं प्रसेवमेव स्वीकृत्य निरगच्छत्।
    अन्ये प्राणिनः उदरपोषणातुराः जीवन्ति, किन्तु मनुष्यः तृष्णातुरः जीवति। अतः तस्य सर्वमस्ति, तथापि सः सदा दुःखितो भवति।
    आवश्यकतापूर्तौ इच्छां निरोधयन्तु। अन्यथा सा अनियन्त्रिता संवर्धन्ती, दुःखकारणं भविष्यति।✍🏻
(वाट्साप्-तः प्राप्तस्य लेखस्य संस्कृतानुवादः)

------------------------- తృష్ణ 
ఒక వ్యాపారి ఉండేవాడు. అతను ఒక లారీలో బియ్యం బస్తాలు తీసుకుని వెళుతున్నాడు. ఒక బస్తా జారి కింద పడిపోయింది. కొన్ని చీమలు వచ్చినాయి. 10-20 గింజలు తీసుకొని వెళ్ళిపోయాయి- కొన్ని ఎలకలు వచ్చాయి. అవి 50-100 గ్రాములు తిన్నాయి. వెళ్లిపోయాయి. కొన్ని పక్షులు వచ్చాయి. అవి కూడా కొన్ని గింజలు తిని వెళ్ళిపోయాయి. కొన్ని ఆవులు వచ్చి రెండు మూడు కిలోలు తిని వెళ్ళిపోయాయి. ఒక మనిషి వచ్చాడు. అతడు మాత్రం మొత్తం బస్తా తానే తీసుకుని వెళ్ళిపోయాడు.
    ఇతర ప్రాణులు పొట్టకోసం బ్రతుకుతాయి. మనిషి మాత్రం తృష్ణా పీడితుడై బతుకుతాడు. అందువల్ల అతడి వద్ద అన్నీ ఉన్నా అందరికంటే ఎక్కువ బాధ పడుతూ ఉంటాడు. అవసరం దాటిన తర్వాత కోరికను ఆపండి. లేదంటే అది నియంత్రణ లేకుండా పెరిగిపోతూనే ఉంటుంది. తరువాత దుఃఖానికి కారణం అవుతుంది.

[వాట్సాప్ లో వచ్చిన ఓ హిందీ లేఖకు తెలుగు అనువాదం]
-------------------------
तृष्णा

     एक व्यापारी था, वह ट्रक में चावल के बोरे लिए जा रहा था। एक बोरा खिसक कर गिर गया। कुछ चीटियां आयीं 10-20 दाने ले गयीं, कुछ चूहे आये 100-50 ग्राम खाये और चले गये, कुछ पक्षी आये थोड़ा खाकर उड़ गये, कुछ गायें आयीं 2-3 किलो खाकर चली गयीं, एक मनुष्य आया और वह पूरा बोरा ही उठा ले गया।
        अन्य प्राणी पेट के लिए जीते हैं, लेकिन मनुष्य तृष्णा में जीता है। इसीलिए इसके पास सब कुछ होते हुए भी यह सर्वाधिक दुखी है।
        आवश्यकता के बाद इच्छा को रोकें, अन्यथा यह अनियंत्रित बढ़ती ही जायेगी, और दुख का कारण बनेगी।✍🏻
(--अग्रेषित)

अनूक्तम्-९ गुरोः एव शिक्षितव्यम्

गुरोः शिक्षितव्यम्

कस्मिंश्चित् नगरे कश्चन लघुवृत्तिवान् आसीत्। तस्य विवाहः जातः। पत्नी यदा गृहमागता, तस्याः पाकज्ञानं नास्तीति ज्ञातम्। सोऽपि पाकज्ञानशून्यः। किंकर्तव्यताविमूढौ सन्तौ भोजनालयाद् अन्नमानयतः स्म। दिनानि व्यतीतानि, भोजनाय धनव्ययः अधिकः भवति स्म। अतः कथञ्चित् पाकः शिक्षितव्य इति निश्चिनुतः। पाकः कथं करणीय इति पुस्तकमानीय उभौ सम्यक् अपठताम्। कदाचित् सुदिने गृहे पाकमारभेताम्। प्रथमम् ओदनं पचाव इति निश्चित्य पुस्तकमपश्यताम्। तत्र “स्थाल्यां चषकद्वयं तण्डुलं स्वीकृत्य ततः द्विगुणितं जलं न्यस्य चुल्ल्यां धातव्यम्” इति लिखितम्। तौ तथैव अकुरुताम्। अर्धघण्टा व्यतीता किन्तु अन्नं न पक्वम्। होराकालः व्यतीतः, एकं बीजमपि न पक्वम्। पुस्तके यथालिखितं तथैवाचरितम्। तथापि समस्या का इति न ज्ञातं ताभ्याम्।
    ततः कश्चित् सहवृत्तिवान् तद्गृहमागच्छत्। दम्पत्योः मुखे म्लाने दृष्ट्वा विषयं विज्ञाय पाकशालां गत्वा अद्राक्षीत्। चुल्ल्यां स्थाली, तस्यां तण्डुलं, तस्मिन् जलं- सर्वं तु सम्यगासीत्, किन्तु चुल्ली ताभ्यां न प्रज्वालिता। “विनाग्नि ओदनविक्लेदः कथम्?” इति तेनोक्तम्। “तत् तु पुस्तके नास्ति” इति तौ जायापती अवदताम्। “पुस्तके नास्तीति कारणात् किं सामान्यज्ञानं विस्मर्यते? अस्तु, त्यजतां पुस्तकम्। अनुभवज्ञं कञ्चिद् आश्रित्य पाकं शिक्षताम्। आचरणयुक्तः प्रयोगः सम्यज्ज्ञायते”। इति उक्त्वा स गतवान्।
    सामान्यविद्याभ्यः अपि सत्यां गुरोरावश्यकतायां, सूक्ष्माध्यात्मिकविद्याभ्यः गुरोः स्थानविषये किं वा वक्तव्यम्? ग्रन्थानां पठनमात्रेण आध्यात्मिकज्ञानं न संसिध्यति। तत्र विषयपरिज्ञानं सद्गुरुभिः विज्ञाय एव परिपूर्णतां याति नरः। आध्यात्मविद्या आचरणविद्या नाम। गुरोः तस्य प्राप्त्या एव सफलतां लभते नरः॥
-------------------------
 
గురుముఖతః నేర్చుకోవాలి
    ఒకానొక పట్టణంలో ఒక చిరుద్యోగి ఉండేవాడు. అతడికి కొత్తగా పెళ్లి అయింది. భార్య కాపురానికి వచ్చిన రోజే.. ఆమెకు వంట రాదని తెలిసింది. ఆయనకూ వంట రాదు. ఏమి చేయాలో తోచక.. రోజూ పట్టణంలోని ఒక హోటల్‌లో భోజనం తెప్పించుకునేవారు. రోజులు గడుస్తున్నాయి. భోజనానికి అయ్యే ఖర్చు ఎక్కువైపోయింది. ఇలా లాభం లేదనుకున్నారు. ఎలాగైనా వంట నేర్చుకోవాలని కంకణం కట్టుకున్నారు.
        ఒక వంటల పుస్తకం తెచ్చుకొని ఇద్దరూ పూర్తిగా చదివారు. ఒక మంచి రోజు చూసి.. ఇంట్లో వంట ప్రారంభించారు. ముందుగా అన్నం వండాలని నిశ్చయించుకున్నారు. పుస్తకంలో చూడగా.. ‘రెండు గ్లాసుల బియ్యం ఒక గిన్నెలోకి తీసుకోవాలి. అందులో నాలుగు గ్లాసుల నీళ్లు పోయాలి. దానిని పొయ్యి మీద ఉంచాలి’ అని ఉంది. ఆ ప్రకారంగానే చేశారు. అరగంట దాటినా.. బియ్యం ఉడుకు పట్టలేదు. గంట దాటుతోన్నా.. ఒక్క మెతుకూ ఉడకలేదు. పుస్తకంలో ఉన్నది ఉన్నట్టుగా చేసినా.. అన్నం ఎందుకు కాలేదనుకున్నారు.
   
    ఇంతలో ఆ ఉద్యోగి స్నేహితుడు వాళ్లింటికి వచ్చాడు. దంపతుల ముఖాల్లో కలవరం చూసి.. విషయం ఆరా తీశాడు. జరిగింది చెప్పగా.. వంటింట్లోకి వెళ్లి చూశాడు. పొయ్యి మీద గిన్నె, గిన్నెలో బియ్యం, అందులో నీళ్లు పోశారు గానీ, పొయ్యి వెలిగించడం మర్చిపోయారు. ‘మంట లేకుండా.. అన్నం ఎలా అవుతుంది?’ అన్నాడు స్నేహితుడు. ‘ఆ విషయం పుస్తకంలో లేదుగా!’ అని అమాయకంగా ప్రశ్నించారు దంపతులు. ‘పుస్తకంలో లేదని ఇలాంటి విషయాలు గుర్తించకపోతే ఎలా? కొన్ని విషయాలు పుస్తకాలపై ఆధారపడటం కన్నా.. అనుభవజ్ఞుడైన వ్యక్తి దగ్గర నేర్చుకోవడం మంచిది. అప్పుడు పద్ధతులు, ఆచరణాత్మక ప్రయోగాలు చక్కగా తెలుస్తాయి’ అని చెప్పి వెళ్లిపోయాడు స్నేహితుడు.        సామాన్య విద్యలకే... గురువు అవసరం అయినపుడు, అతి సూక్ష్మమైన ఆధ్యాత్మ విద్యకు గురువు ఆవశ్యకత ఎంతుందో తెలుసుకోవచ్చు. గ్రంథములు చదివినంత మాత్రాన ఆధ్యాత్మికత జ్ఞానం సిద్ధించదు. అందులోని విషయాలను సద్గురువు ద్వారా అభ్యసిస్తే అది పరిపూర్ణం అవుతుంది. ఆధ్యాత్మ విద్య.. ఆచరణాత్మకమైన విద్య. దానిని గురు ముఖంగా నేర్చుకుంటేనే సఫలీకృతులు అవుతారు.
(అగ్రే సారితం)

-------------------------
गुरु के द्वारा ही सीखना चाहिए

    किसी नगर में छोटी नौकरी करने वाला कोई रहता था। उसका विवाह हो गया। जब उसकी पत्नी घर आई तो यह पता चला कि उसे खाना बनाने का ज्ञान नहीं था। और वह (स्वयं) भी खाना बनाना नहीं जानता था। क्या करें, कुछ पता नहीं चला। अतः दोनों भोजनालय से खाना लेकर आने लगे। कुछ दिन बीते। भोजन के लिए बहुत खर्चा हो रहा था। अतः यह निश्चय कर लिया कि कैसे भी खाना बनाना सीखना ही है। ‘खाना कैसे बनाए’ यह पुस्तक ले आए और दोनों ने अच्छे से पढ़ा। एक शुभ दिन देख कर घर में खाना बनाना प्रारंभ किया। ‘पहले चावल बनाएंगे’ यह सोचकर पुस्तक देख लिया। उसमें लिखा था- ‘थाली में दो गिलास चावल लेकर उससे दुगना पानी डालकर चूल्हे पर रखना है।’ उन्होंने ऐसा ही किया। आधा घंटा बीत गया। पर खाना नहीं पका। एक घंटा बीत गया एक भी दाना नहीं पका। पुस्तक में जैसा लिखा था वैसा ही किया। फिर भी क्या समस्या है- दोनों को यह पता नहीं चला।
    तब कोई उसका कोई सहकर्मचारी घर आया। पति पत्नी के लटके मुख देखकर विषय जानकर पाकगृह में गया और देखा कि चूल्हे के ऊपर थाली, उसमे चावल, और उसमें पानी- सब तो ठीक था। पर चूल्हे को उन लोगों ने जलाया नहीं था। उसने पूछा- ‘आग के बिना खाना कैसे बनता? चावल कैसे पकता?’ उस उन दोनों ने कहा कि ‘वह तो पुस्तक में नहीं है।’ ‘पुस्तक में नहीं है, इस कारण से क्या सामान्य ज्ञान भी भूल जायेंगे? ठीक है। पुस्तक को छोड़ो। किसी अनुभवी व्यक्ति के पास जाकर खाना बनाना सीख लो। आचरण के साथ ही प्रयोग अच्छी तरह जान सकते हैं।’ ऐसा कहकर वह चला गया।
    सामान्य ज्ञान के विषय में गुरु की आवश्यकता इतनी है तो सूक्ष्म आध्यात्मिक विद्या के लिए गुरु के स्थान के विषय में क्या कहना? ग्रंथों को पढ़ने मात्र से आध्यात्मिक ज्ञान नहीं सिद्ध होता। वहां विषय परिज्ञान सदगुरुओं के द्वारा जानकर ही परिपूर्णता को प्राप्त होता है। आध्यात्मिक विद्या आचरण विद्या है। गुरु की प्राप्ति से ही वह सफल होता है॥

[वाट्साप से प्राप्त किसी सन्देश का हिन्दी अनुवाद]

अनूक्तम्-८ यत्र दृष्टिः तद् दृश्यते

यत्र दृष्टिः तद् दृश्यते
(अनुवादलेखः)

            काचित् महिला प्रतिदिनं मन्दिरं गच्छति स्म । एकस्मिन् दिने सा महिला अर्चकम् अवदत् -- इतः अहं देवगृहं नायामि।
            ततः अर्चकः अपृच्छत् -- कुतः?
            तदा स्त्री अवोचत् -- जनाः देवालयपरिसरे चलवाण्यां स्ववाणिज्यविषयान् अधिकृत्य सम्भाषन्ते। केचन दैवमन्दिरमेव वृथा सँल्लापस्य स्थानं कृतवन्तः। केचन पूजाम् अल्पीयसीं, पाखण्डत्वं प्रदर्शनं चाधिकमनुतिष्ठन्ति इति अहं पश्यामि।
            तदा अर्चकः कञ्चित् कालं मौनं धृत्वा पुनः अभणत् -- सत्यमेव । परन्तु अन्तिमनिर्णयात् पूर्वं किं भवती मम वचनमातिष्ठति?
            सा योषित् न्यगदत् -- भवान् वदतु, किं कर्तव्यमिति ।
            अर्चकः अगदत् -- एकं चषकं स्वीकृत्य जलेन पूरयतु । द्विवारं देवागारपरिसरे परिक्रमां करोतु । नियम एषः  चषकात् वारि अधः न पतेत् इति।
            सा नारी उवाच -- आम्, तथाचरामि ।
            ततः सा ललना कञ्चित् कालं पश्चात् तथाचर्य प्रादर्शयत् ।
            अथ देवायतनस्य अर्चकः ताम् अङ्गनां त्रीन् प्रश्नान् कृतवान् -
                        १. किं भवती कान् अपि चलवाण्यां वार्तालापं कुर्वतः अपश्यत्?
                        २. किं कोऽपि देवभवने वार्तालापं कुर्वन् दृष्टः?
                        ३. कमपि पाखण्डमाचरन् अलक्षयत्?
            सा वनिता अब्रवीत् -- नैव। नाहं किमपि कमपि वा द्रष्टुं शक्ता।
            तदा अर्चकः उक्तवान् -- भवती परिक्रमां कुर्वन्ती, पूर्णां दृष्टिं चषके एव स्थापितवती। अस्मात् जलं  अधः न पतेत् इति। अतः भवती किमपि अन्यत् नापश्यत्। अद्यारभ्य यदा कदापि भवती देवनिकेतनमागच्छति तदा स्वध्यानं परमात्मनि एव निदधातु। तेन भवती कमपि किमपि वा न लक्षयिष्यति। भगवान् एव सर्वत्र दृष्टिपथमायास्यति॥

----------------------

ఎక్కడ దృష్టి పెడితే అదే కనిపిస్తుంది 

            ఒక మహిళ ప్రతిరోజు గుడికి వెళుతూ ఉండేది.
            ఒక రోజు ఆమె పూజారిని చూసి ఇట్లా అంది -- ఇకపై నేను గుడికి రాను.
            అప్పుడు పూజారి అడిగాడు -- ఏం జరిగింది?
            అప్పుడు ఆమె చెప్పింది -- ఇక్కడ గుడిలో జనాలు చలవాణి లో తమ వ్యాపార విషయాలు మాట్లాడుకుంటున్నారు. కొందరు గుడిని ఊరికే ముచ్చట్లు పెట్టుకొనే స్థానంగా చేసుకున్నారు. కొందరు పూజ తక్కువ, అనాచారాలు, ప్రదర్శనలు ఎక్కువ చేస్తున్నారు. ఇదే చూస్తున్నాను.
            అప్పుడు పూజారి కొద్దిసేపు మౌనం వహించి తర్వాత ఇట్లా అన్నాడు -- నిజమే కానీ మీ చివరి నిర్ణయానికి ముందు నేను చెప్పింది ఒకటి చేస్తారా?
            అప్పుడు ఆమె సరే చెప్పండి, ఏం చేయాలి?’ అని అడిగింది.
            పూజారి అన్నాడు -- ఒక లోటా తీసుకొని నీటితో నింపండి. రెండుసార్లు గుడిచుట్టూ ప్రదక్షిణ  చేయండి. నియమం ఏంటంటే లోటా లో నుండి నీరు కింద పడరాదు.
            అప్పుడామె -- సరే అలాగే చేస్తాను- అంది.
            తర్వాత ఆమె కొద్దిసేపటి తర్వాత అట్లా చేసి చూపించింది.
            అప్పుడు గుడి పూజారి ఆమెను చూసి 3 ప్రశ్నలను అడిగాడు
                        1. ఇప్పుడు మీరు ఎవరినైనా చలవాణిలో మాట్లాడుతూ చూసారా?
                        2. ఎవరైనా గుడిలో ముచ్చట్లు పెట్టుకుంటూ కనిపించారా?
                        3. ఎవరైనా అనాచారం చేస్తూ కళ్ళబడ్డారా?
            అప్పుడామె అన్నది -- లేదు. నాకు ఇవేమీ కనిపించలేదు.
            అప్పుడు పూజారి అన్నాడు -- మీరు గుడిలో ప్రదక్షిణ చేస్తున్నప్పుడు పూర్తి దృష్టిని లోటా మీదనే ఉంచారు. దాని నుండి ఎక్కడ జలం కింద పడుతుందో అని. అందువల్ల మీరు ఇంక ఏమీ చూడలేదు. ఇవాల్టి నుంచి ఎప్పుడైనా మందిరానికి వస్తే మీ దృష్టినంతా పరమాత్మ మీద పెట్టండి. దానివల్ల మీరు దేనిని, ఎవరిని పట్టించుకోరు. భగవంతుడు మాత్రమే అంతట దృష్టిపథంలో కనిపిస్తాడు.

--(వాట్సాప్ లో వచ్చిన ఓ హిందీ లేఖకు అనువాదం)

----------------------
जहाँ दृष्टि हो वही दिखता है

एक महिला रोज मंदिर जाती थी ! एक दिन उस महिला ने पुजारी से कहा अब मैं मंदिर नही आया करूँगी !
इस पर पुजारी ने पूछा -- क्यों ?
तब महिला बोली -- मैं देखती हूँ लोग मंदिर परिसर में अपने फोन से अपने व्यापार की बात करते हैं ! कुछ ने तो मंदिर को ही गपशप करने का स्थान चुन रखा है ! कुछ पूजा कम पाखंड,दिखावा ज्यादा करते हैं !
इस पर पुजारी कुछ देर तक चुप रहे फिर कहा -- सही है ! परंतु अपना अंतिम निर्णय लेने से पहले क्या आप मेरे कहने से कुछ कर सकती हैं !
महिला बोली -- आप बताइए क्या करना है ?
पुजारी ने कहा -- एक गिलास पानी भर लीजिए और 2 बार मंदिर परिसर के अंदर परिक्रमा लगाइए । शर्त ये है कि गिलास का पानी गिरना नहीं चाहिये !
महिला बोली -- मैं ऐसा कर सकती हूँ !
फिर थोड़ी ही देर में उस महिला ने ऐसा ही कर दिखाया !
उसके बाद मंदिर के पुजारी ने महिला से 3 सवाल पूछे -
            1.क्या आपने किसी को फोन पर बात करते देखा !
            2.क्या आपने किसी को मंदिर में गपशप करते देखा !
            3.क्या किसी को पाखंड करते देखा !
महिला बोली -- नहीं मैंने कुछ भी नहीं देखा !
फिर पुजारी बोले --- जब आप परिक्रमा लगा रही थीं तो आपका पूरा ध्यान गिलास पर था कि इसमें से पानी न गिर जाए इसलिए आपको कुछ दिखाई नहीं दिया, अब जब भी आप मंदिर आयें तो अपना ध्यान सिर्फ़ परम पिता परमात्मा में ही लगाना फिर आपको कुछ दिखाई नहीं देगा ! सिर्फ भगवान ही सर्वत्र दिखाई देगें ॥