Wednesday, 12 September 2018

विचारः-२ भाग्यमुत पुरुषार्थः-

प्रश्नः-
सिंहो बली गिरिगुहागहनप्रवासी।
वासोदरे वसति भूमिभृतां बिडालः।।
नो पौरुषं कुलमपि प्रचुरा न वाणी।
दैवं बलीय इति मुञ्च सखे विषादम्।।


किं मन्यन्ते विद्वांसः विषयेऽस्मिन् ? इति जिज्ञासा ।

समाधानम्-

सन्दर्भमाश्रित्य एतानि पद्यानि विरच्यन्ते। लोके, यत्र भाग्यं बलवत्, तत्र भाग्यम्। यत्र पुरुषार्थं, तत्र तत्। पुरुषार्थं प्रशंसन्तः बहवः श्लोकाः मया दृष्टाः।
मनुष्यस्य भाग्यं पूर्वमाचरितैः कर्मभिः एव निर्णीयते इति वदन्ति।
यत् सर्वं इदानीं स आचरति, तत् अग्रिमकर्म भूत्वा भाग्यं निर्णयति।
किन्तु अत्र यत् भाग्यमिति वदन्ति, तस्य कारणमन्यत् निरूपितम्। अतः सान्दर्भिकपद्यमिव भाति। सिंहः बली किन्तु क्रूरःपशुः। बिडालः अपि मांसमत्ति किन्तु मनुष्यान् न हन्ति। अतः मनुष्येषु सः स्वेच्छया विहरति। अनेन ज्ञायते यत् - गुणः अत्र प्रधान इति। किन्तु कविः तत् भाग्ये धारयति।

No comments:

Post a Comment