Wednesday, 19 July 2017

सँल्लापः-५ - पुस्तकालये



पुस्तकम्१-- अहो, कश्चन आगतः। मत्समीपमागच्छेत्। माम् उद्घाटयेत्। बहुकालः व्यपगतः, मनुष्यमात्रं दृष्ट्वा।
पुस्तकम्२-- त्वं तु पुरातनविषयक-पुस्तकमसि। अहम् अधुनातन-विषयक-कथा-पुस्तकमस्मि। मामेव सः उद्घाटयिष्यति।
पुस्तकम्१-- (सोपालम्भम्) सः प्राचीनविषयेष्वासक्तः भवेत्। पश्यतु, तस्य हस्ते लेखनी-लेखनपुस्तकं चास्ति। सम्प्रति आधुनिकः युवकः कः लेखने अभ्यस्तः? चलवाणीं स्वीकृत्य झटिति चित्रं गृह्णाति, पठति च।
पुस्तकम्२-- आम्। पश्यावः। (हसन्, तर्जन्या प्रदर्शयन्) तत्र संस्कृतभाषापुस्तकानाम् आधान्यां पश्यतु, पुस्तकानि कथं नृत्यन्ति..! तानि चिन्तयन्ति सः तेषामेव निकटमागमिष्यतीति।
पुस्तकम्१-- आम्। पश्यामि, शृणोमि च। तस्य प्रवेशनमारभ्य पुस्तकालये सर्वासु आधानीषु इयमेव स्थितिः।
पुस्तकम्२-- महता परिश्रमेण लेखकः अस्मान् निर्माति! नूतनं चिन्तनं, काव्य-भावं वा विज्ञाननिगूढतां वा आविष्करोति।
पुस्तकम्१-- आम्। पुस्तकोद्घाटन-समारम्भाद् आरभ्य वयं महत्या आशया निरीक्षामहे, कः का वा अस्मान् पठित्वा स्वबुद्धिं विकासयतीति। कः नः स्पृशतीति, रचयितुः कष्टस्य फलं विदधाति इति च।
पुस्तकम्१-- सत्यम्। वयं सर्वे तथैव स्मः। न कोऽपि ग्रन्थालयनाम दृष्ट्वापि अन्तः आगच्छति, न कोऽपि अस्मान् उद्घाटयति, पठति वा। केवलं परीक्षार्थिनः आगच्छन्ति, पाठ्यपुस्तकानि बहुक्लेशेन पठन्ति, फलाङ्कान् प्राप्य निर्गच्छन्ति च।
पुस्तकम्२-- आम्। ये पाठनकार्ये नियुक्ताः, तेऽपि यावत् पाठनायावश्यकं केवलं तावत् पठन्ति। यस्य लेखकस्य वयं कृतयः, सः अस्मान् सृजति, अक्षराणि संयुज्य रूपं ददाति। विचारमात्ररूपकं मनसः बहिः आनयति। काचन अपूर्वप्रतिभेयम्।
पुस्तकम्१-- आम्। मम निर्माणे मम सर्जकः नानाक्षेत्राणि, विश्वविद्यालयान्, ग्रन्थागारान् च अटित्वा, शतशः ग्रन्थान् पठित्वा लिखितवान्। वृत्त्यापि विरामं स्वीकृतवान् पुस्तकलेखनाय। विना धनं यथाकथञ्चित् निर्वहन् लिखितवान्।
पुस्तकम्२-- मम लेखिकापि तादृश्यैव। गृहकार्याणि कुर्वन्ती, शिशून् संरक्षन्ती, गृहे ज्येष्ठानां सेवां कुर्वन्त्यपि अहोरात्रं च परिश्रम्य, स्वसुखं त्यक्त्वा माम् अलिखत्। साम्प्रतिकाः रोचकाः कथाः मयि सन्तीति द्वित्राः जनाः मामभिनन्दन्।
पुस्तकम्१-- प्रथमं तु लेखनम्, पुनः मुद्रापणे क्लेशाः, ततः, बहिः प्रकटने, जनैः क्रयणे च क्लेशाः। अहो, विघ्नाः पदे पदे।
पुस्तकम्२-- सर्वम् अतिक्रम्य यदात्र अवतिष्ठामः, फलं प्राप्तुं च प्रतीक्षामहे, तदा इयं च दुःस्थितिः। इतः श्रेष्ठं कस्यचित् क्रेतुः गृहे निवासः। कदाचित् प्रेम्णा स धूलिमपसार्य, उद्घाट्य पठति, अस्मद्विषये किञ्चिद्वा प्रशंसाकरं वाक्यम् अन्यान् वदति।
पुस्तकम्१-- सत्यम्। अयं ग्रन्थालयाधिकारी, अत्रस्थाः कार्यकर्तारोऽपि केवलं धनाय वृत्तिमिमां प्राप्तवन्तः। कदापि एकोऽपि अस्मत्सु निक्षिप्तं धूलिं न मार्ष्टि। पाठकाः पठित्वा तत्र प्रास्य गच्छन्ति यथागतम्। पुनः आधान्यां न सम्यक् योजयन्ति।
पुस्तकम्२-- कदाचिदहम् आधान्या दूरमेकमासकालमतिष्ठम्। मित्राणि विहाय उत्पीठिकायां अनाथ इव अवस्था तु असह्या।
पुस्तकम्१-- आम्। ये केचित् पाठकाः आगच्छन्ति, तेऽपि अस्मान् प्रति साधु नाचरन्ति। कदाचित् पत्राणि भञ्जयन्ति, कदाचित् लेखन्या यत्किञ्चित् लिखन्ति, मुखपृष्ठं छिन्दन्ति। 
पुस्तकम्२-- इतः परं मा स्म वदः। नाहं शक्ता श्रोतुम्। स युवकः मां नोद्घाटयतु नाम। तूष्णीं भवामि।
पुस्तकम्१-- अस्तु। योग्यः पाठकः आगच्छेत् कदाचित्। अहं निरीक्षे। शुभम्।

सँल्लापः-४ - सूर्यः मानवः



मानवः-- अहो घर्मः! कालः काल इव तापयति। कियान् क्लेशसमयः! कथमहं कार्यं करिष्ये? सूर्यः यमायते।
सूर्यः-- कस्सः, मामाक्षिप्यति? कः यमायते, अहम् उत त्वम्?
मानवः-- आतपपाशेन नस्ताडयसि। देवस्सन् दाक्षिण्यं न करोषि। त्वमेव यम इवाचरसि देव। जीवन्त एव अस्मान् हंसि।
सूर्यः-- अधुना ग्रीष्मर्तुः। अतः मम धर्ममहं करोमि। तेन तव क्लेशश्चेद् न मम दोषः।
मानवः-- (परिहसन्) तवापि नियन्त्रिणी पत्नी भवेत्, सैव तव आतपाधिक्य-क्रीडां निरुन्ध्येदिति जना परिहसन्ति त्वाम्।
सूर्यः-- (हसन्) तत्तेषां मौढ्यम्।
मानवः-- सर्वे धनवन्तो न। अकिञ्चना अपि वर्तन्ते लोके ये शैत्यकारकयन्त्रैः युक्तेषु गृहेषु, कार्यालयेषु वा न जीवन्ति। त्वया दयावता भाव्यम्।
सूर्यः-- दयावान् तु अहमस्मि। अतः एकेनैव नमस्कारेण आरोग्यं प्रददामि। सूर्योदयात् पूर्वमुत्थाय, स्नात्वा यः अर्घ्यं करोति, तस्य विशेषलाभं करोमि। बुद्धिविकासोऽपि भवति मम बालकिरणानां सेवनेन। शिशवः बलमपि प्राप्नुवन्ति बालरश्मिभिः। मम प्रभावेण नीरसभावोऽपि शरीरात् निर्गत्य द्रवति।
मानवः-- सत्यम्। वयं भवता विना न जीवेम। जानामि। किन्तु.. किन्तु सर्वं जलं त्वं हरसि। जलेन विना, शैत्यभावाभावेन च जनाः म्रियन्ते।
सूर्यः-- तत् सर्वं न मम शिरोवेदना। कालस्य ऋतोश्च धर्मः भवति। सर्वदा शैत्यमेव, सर्वकालेषु आतप एकस्तु नावतिष्ठति। ऐकविध्यं न प्रकृतिनियमः। अधुना जलं न हरामि चेत् मेघः किं वा वर्षेत् वर्षासु?
मानवः-- वर्षाः दूरे सन्ति। अधुनाहं कथं जीवेयम्? तत् वदतु। यावत्त्वं दहसि, तावदहं नान्यत् चिन्तितुं पारयामि।
सूर्यः-- प्रकृतौ अस्मै व्यवस्था अस्ति। शैत्यभावाय वृक्षाणां छाया अस्ति। नदीनां परिसरप्रदेशाः शीतत्वयुक्ता एव। उटजेषु तालपत्रच्छद-युक्तगृहेषु, मृन्निर्मित-भित्तियुक्त-लघुगृहेषु च आतपकालेऽपि घर्मभयं नितरां न भवति।
मानवः-- सर्वदा वृक्षच्छायायां, लघुगृहेषु कथमुपविशेयम्? कार्यमपि करणीयं उदरपोषणार्थम्। अहमकिञ्चनः कथं निर्वहेयम्।
सूर्यः-- तवैव दोषस्सः। वृक्षच्छायायां निरन्तरोपवेशनं मास्तु। किन्तु वृक्षेषु सत्सु परिसरप्रान्तः शीतः भवति। शैत्यकारकान् वृक्षान् छेत्तुमहं नोक्तवान्। जलाशयान् आक्रम्य सौधान् निर्मातु इति अहं नादिष्टवान्। नानाविध-हानिकर-रसायनानि उपयुनक्तु इति मम आयोजना नासीत्।
मानवः-- सत्यम्। अङ्गीकरोमि। केचन स्वार्थपरास्तथा कुर्वन्ति। पर्यावरणे दुष्प्रभावमविगणय्य वृक्षच्छेदनं, जलाशयोपरि गृहसमुदायनिर्माणम् इत्यादिना च धनमर्जन्ति। सर्वकारोऽपि तत्र निषेधं न विदधाति।
सूर्यः-- त्वया तेभ्यः ज्ञानं देयम्। जनाः ज्ञापितव्याः। ग्रीष्मकालागमनात् पूर्वमेव तस्मै व्यवस्था कार्या। एवंविधगृहाणि निर्मितव्यानि। मृन्निर्मितकुटीरेभ्यः नाधिकं धनमावश्यकम्।
मानवः-- सत्यं वदसि। अस्तु। त्वया विवादेन न कोऽपि लाभः। अस्माकमेव दोषः। त्यजामि। गच्छामि देव॥

सँल्लापः-३ - पिपीलिका-२



बाला-- अहो, मातः। पश्य। मधुशीशके पिपीलिकाः सन्ति।
पिपीलिका-- श् श् श्। कुतः आक्रोशसि?
बाला-- मम मधु सर्वं त्वं खादसि। बान्धवान्, मित्राणि, पुत्रपौत्रान् चाहूय मिलित्वा खादसि। किञ्चिदपि मम विषये चिन्तनं नास्ति। तुभ्यं क्रुद्धास्मि।
पिपीलिका-- किं तर्हि अहमेकाकिनी खादामि? सर्वदा अहं मधुररसं तेभ्योऽपि प्रदद्याम्।
बाला-- वयं मानवाः एवं न चिन्तयामः। त्वं मित्र-बन्धु-परिवारजनैः युक्तः एव अन्नमर्जसि। त्वं एकाकिनी कदापि न नन्दसि।
पिपीलिका-- आम्। सङ्घे शक्तिः कलौ युगे किल। वयं सङ्घीभूय कार्यं कुर्मः।
बाला-- सत्यम्। नितरां स्वार्थपरा वयम्। केचित्तु अधुनापि सर्वजीवेषु दयां दाक्षिण्यभावं च प्रदर्शयन्ति। अहं न तादृशी।
पिपीलिका-- अत एव इत्थं क्रोधं प्रदर्शयसि।
बाला-- यावदिष्टं तावत् खादतु, नयतु च। अहं नाक्षिपामि। किन्तु यदा मम मधुखादनेच्छा जागर्ति, तदा त्वं न निर्गच्छेः। तव समस्तपरिवार-निष्प्रेषणाय मम दीर्घः समयः व्यर्थः गच्छति।
पिपीलिका-- आम्। अवश्यं निर्गम्येत एवास्माभिः। अधिकं मधुररसं तु अस्माकमपि हानिमाचरति। किञ्चित् स्वीकृत्य निर्गमिष्यामः, इति स्वबान्धावजनमहं कतिवारं वदामि? न कोऽपि शृणोति। अधुना मधुशीशके कति बान्धवाः हताः, पश्य।
बाला-- (दृष्ट्वा सक्रोधम्) अवश्यम्। इतोऽपि आह्वयतु सर्वान्! मधुरलोभाद् आगत्य म्रियन्ते। तदापि बुद्धिः नोत्पद्यते।
पिपीलिका-- (सप्रश्रयम्) उच्चैः माक्रन्द।
बाला-- अधुना अहं मधुनः भवतां मृतदेहान् कथं निष्कासामि? अहो, बत महत् कष्टम्। धिक् त्वं, तव मधुरपदार्थलोभं, तव बान्धवांश्च।
पिपीलिका-- तव समीपे चालनी अस्त्येव। तया सकृत् मधु सारयतु अन्यशीशके। किमत्र कष्टम्?
बाला-- मास्तु तथा। पिपीलकानां मृतदेहेभ्यः अवाञ्छितपदार्थाः सम्भवन्ति। नाहमिच्छामि तादृक्किञ्चित्। अहं नूतनं मधुशीशकं क्रेष्यामि श्वः। एतत् पातयामि। किञ्चिदेवावशिष्टं किल।
पिपीलिका-- मम कारणेन कियान् क्लेशस्तव। तव तु केवलं धनहानिः। अस्माकं तु प्राणहानिः। “अति सर्वत्र वर्जयेत्।” अस्तु। क्षन्तव्याहम्।
बाला-- तव दोषो न। मम एव। ह्यः मधुशीशकं जलपूर्णस्थाल्यां नास्थापयम् किल। तस्य पिधानमपि सम्यक् न कृतम्। अतः तव बृहत्सैन्येनाकृष्टं शीशकम्। इतः परं सावधानेन भाव्यम्।
पिपीलिका-- आशा नाम काचित् पिशाची अस्मानपि नरके पातयति।
बाला-- सुष्ठु ज्ञातम्। गच्छाधुना। जीव च। एते इव मा म्रियस्व।
पिपीलिका-- अस्तु। गच्छामि॥