Friday, 6 April 2018

अनूक्तम्-३ कालातीतात् पूर्वमेव विद्धि तत्त्वं हि स्वस्य


कश्चन अमेरिकादेशीयः यात्री भारतदेशे कञ्चन योगिनमुगतवान् । योगिनः गृहम् अत्यन्तं निराडम्बरमासीत् इति सः अपश्यत्। तत्र सम्पूर्णानि वस्तूनि द्वे एव- कटः, घटश्च।
यात्री अपृच्छत्- "भवति अत्यन्तमादरेण किमहं प्रष्टुमर्हामि? भवतः सामाग्री, अन्यानि सर्वाणि वस्तूनि च कुत्र सन्ति?"
योगी अपृच्छत्- "तव कुत्र सन्ति?"
यात्री अवदत् "मम? किन्तु अहं तु अत्र केवलो यात्री।"
योगी अवदत् "अहमपि।"
-----------

जीवन को समझलो, कहीं देर न होजाए


एक अमेरिका से आया हुआ यात्री भारत देश में किसी योगी से मिला। उसने देखा कि योगी का घर बहुत ही सादा है। वहां पर पूरा सामान था, केवल एक दरी और एक मटका है।

यात्री ने पूछा कि "आप पर पूरे आदर के साथ क्या मैं पूछ सकता हूं कि आपके फर्नीचर और बाकी वस्तु कहां है?"

योगी ने कहा "तुम्हारे कहां है?"

यात्री ने कहा "मेरे? लेकिन मैं तो यहां पर केवल एक यात्री हूं।"

योगी ने कहा "मैं भी।"
-----------

An American tourist visited an Indian Yogi. He was astonished to see that the Yogi's home was a plain, simple room. The only furniture was a mat and an earthen water-pot.
Tourist :"Yogi, with due respect, may I ask: where's your furniture and other household things?"
Yogi : "Where is yours?"
Tourist : "Mine? But I'm only a visitor here."
Yogi : "So am I !!"



Sunday, 13 August 2017

नाटकम्-१ - त्रयः मत्स्याः

दृश्यम् 1
सुमतिः— ह्रदोऽयं कियान् सुन्दरः.. अरण्यमिदं कियत् शान्तम्..

कालमतिः— आम्.. सत्यम्.. सुन्दरमेव ।

मन्दमतिः— म् म् म्..

सुमतिः— वयं मित्राणि सर्वदा सुखेन अत्र भविष्यामः.. निर्मलेऽस्मिन् जले.. विहरन्तः.. खादन्तः.. हसन्तः.. खेलन्तः..। मन्दमतिः— तथा..। जल्पन्तः.. शयानाः...

सुमतिः— वयं एकत्र भवामः, सप्रेम जीवामः किन्तु.. जाने कुतः.. तदापि कदाचित् भविष्यति सत्यां विपत्तौ मम भयं भवति।

कालमतिः— अहं तु कालमनुसृत्य चरामि। त्वं सदा अधिकं चिन्तयसि..। अलं चिन्तया।

मन्दमतिः— आम्। वृथा त्रस्तः भवसि।

कालमतिः— सुमते, त्वं तु विजानासि सर्वम्। आपदः रक्षिष्यसि अस्मान्। सर्वदा तव परामर्शैरेव किल ह्रदे वयं सर्वे सुखेन भवामः। अधुना चिन्तां त्यज, आगच्छ, खेलामः।

सुमतिः— आम्। अस्तु.. आगच्छ, मन्दमते.. ।

मन्दमतिः— म् म्



दृश्यम् 2

सुमतिः— अद्य मम मनः खिद्यते। (किमपि श्रुण्वन्) तत्र कोऽपि वार्तालापं करोति। इतः पश्यामि। तत्र पुरुषौ किमपि सँल्लपतः। किं वा वदतः तौ? (श्रुणोति)

धीवरः 1— ह्रदोऽयं मत्स्यैः पूर्णः अस्ति। श्वः आगत्य अत्र जालैः मीनान् आहरामः।

धीवरः 2— आम्। अद्य तु जालं नानीतम्। याहि।

धीवरः 1— मत्स्यान् एतान् दृष्ट्वा गमनेच्छा नास्ति.. अधुनैव तान् गृहीत्वा निर्बध्य विक्रीय कियद्धनं लप्स्ये इति विचारेण नन्दामि..।

धीवरः 2— नन्द, नन्द। श्वः अन्यानपि धीवरान् आनयावः। अधिकस्याधिकं फलम्। आगच्छ.. चलावः।

(द्वौ निस्सरतः)

सुमतिः— (सभयं) भगवन्, किमिदं..? मत्स्यबन्धकाः आगत्य अस्मान् धरिष्यन्ति.. अहो.. महापदो महापदः..

कालमतिः— किमभवत्? किं चिन्तयसि? किं भणसि आत्मनि..?

सुमतिः— श्वः वयं सर्वे मरिष्यामः। आगच्छन्तु, ते मत्स्योपजीविनः आस्मान् धरिष्यन्ति। ह्रदे सर्वान् वद.. अविलम्बं चलामः इतः अन्यत्र।

कालमतिः— अहो, कियान् भीतो भवान्!! मास्तु भयः।

मन्दमतिः— सर्वं मृषा। न कोऽपि आगमिष्यति.. न किमपि करिष्यति वा।

सुमतिः— अलं विवादेन। चलतु। मास्तु चर्चा। अवश्यं प्राणाः रक्षणीयाः।

कालमतिः— श्वः किल आपदः समयः!! श्वः पश्यामः.. कः क्लेशः? अहं तु कालानुगतो जीवी अस्मि।

मन्दमतिः— अहं तु कुत्रापि न गमिष्यामि। गच्छन्तु ये गमनेच्छुकाः। अहं धैर्यशाली।

सुमतिः— बाढम्। अहं तु प्राणान् रक्षामि। ह्रदे ये अन्ये मत्स्याः, तानपि ज्ञापयामि। अन्यत्र सुरक्षितं स्थानमेष्यामि च।

कालमतिः— साधु..। गच्छ तात यथासुखम्।

मन्दमतिः— सर्वेऽत्र भयभीताः। अहं तु निश्चलः। इहि त्वमेकाकी।

सुमतिः— मन्दः त्वम्। यदा ते कैवर्ताः आगत्य स्वेच्छां परिपूर्य, स्वकार्यं निर्वर्त्य निर्गमिष्यन्ति, तदा पुनरायामि। यदि जीवेयुः भवन्तः, तर्हि मिलिष्यामि।

कालमतिः— शुभं भूयात्तव।

मन्दमतिः— शुभमस्तु।

(सुमतिः निर्गच्छति)



दृश्यम् 3

धीवराः— अहो आनन्दः, अहो हर्षः.. सर्वे मत्स्याः अस्माकम्। गृह्णन्तु.. तत्र जालं क्षिपन्तु..। अरे मीन, कुत्र तरसि? आगच्छ, जाले पत। अहहहह अहहहह।

मीनाः— हा धिक्। आपदः, आपदः। विपन्ना वयम्। रक्ष रक्ष। इतः धाव। तत्र जालं नास्ति.. तत्र तर। हा अहो।

कालमतिः— यदुक्तं सुमत्या, तत् सत्यम्। अधुना किं वा कर्तव्यम्? कियद्दूरं धावामि? कथं रक्षामि..

(कश्चित् मात्स्यिकः कालमतिं धरति)

कालमतिः— अपेहि, त्यज। मां विसृज। गच्छ.. अहो, अहमपि पतितः जाले। अधुना को वा रक्षेन्माम्? सुमत्याः वचनं श्रोतव्यमासीत्।

मन्दमतिः— अहं न भीतः। अहं रक्षिष्यामि स्वम्। (कण्ठगतप्राणः विचलति)

कालमतिः— अयं तु भीतेर्विषयः मन्दमते। अहं तु उपायेन रक्षामि स्वप्राणान्। निर्गतप्राण इव आत्मानं दर्शयामि। त्वमपि तथा कुरु। श्वासमपि निर्बध्य तिष्ठ। मा चल।

मन्दमतिः— जलेन विना मम प्राणाः व्यपगच्छन्ति.. कथं वा अचलं तिष्ठेयम्?

कालमतिः— तूष्णीं भव। किमहं जलान्तः भवामि? ममापि सैव स्थितिः यथा तव। किन्तु प्राणान् रक्षितुमेव एष उपायः।

मन्दमतिः— अहो, धिक्, हा, अहो.. रक्ष। रक्ष।

कालमतिः— (आत्मनि) एषः बुद्धिहीनः। अहं तु विगतप्राणः इव नटामि। (तथैवाचरति अचलं च तिष्ठति)

मन्दमतिः— म्रियेऽहम्। मा धर माम्। त्यज। अपसृज।

धीवरः1— (मन्दमतिं दृष्ट्वा) सः न मृतोऽधुनापि। जाले एव भवतु सः। (कालमतिं दृष्ट्वा) मृतः एषः मत्स्यः। इमं द्रोण्यां क्षिप। (जालिकः तं द्रोण्यां क्षिपति)

कालमतिः— (आत्मनि) रक्षितोऽहम्। उपायः सफलो जातः। जालात् बहिः क्षिप्तोहं झटिति जले कूर्दामि, वेगन अन्तः तीर्त्वा आत्मानं रक्षामि च। (तथाचरति)

मन्दमतिः— हा धिङ्, मृतोऽहम्।

कालमतिः— (सदुःखम्) एषः मन्दभाग्यः मृतः। अन्तिमे क्षणेऽपि मूर्ख इवाचरितवान्। श्वः सुमतिः आगमिष्यति। तदानीं आवां द्वावेव भवावः। गतः एषः सुहृत्।

--------------------------

Thursday, 10 August 2017

सँल्लापः - ८ – गणेशः, कुमारः च

गणेशः-- कुमार, आगच्छ, खेलावः।

कुमारः-- नाहं त्वया खेलामि। त्वं सर्वदा ज्येष्ठ इवाचरसि। सुहृदिव न।

गणेशः-- अस्तु, अधुना न करिष्यामि। आयाहि। अन्यदेवतानां केषामपि बालाः न सन्ति किल। अतः आवामेकाकिनौ।

कुमारः—सत्यम्। अस्तु, किं खेलावः?

गणेशः—अहं धावामि, त्वं मां गृहाण। त्वयि मां गृहीते पुनरहं त्वां धावन्तं ग्रहीष्यामि।

कुमारः—अथ किम्। तर्हि धाव। त्वामहं क्षणद्वये ग्रहीष्यामि। (तथैव धावन्तं भ्रातरं गृह्णाति च)

गणेशः—अरे, त्यज। ग्रहणं नाम केवलं स्पर्श एव। न पुनः स्कन्धयोः उत्थापनम्। न मामुद्धरैवम्। उत्सृज।

कुमारः—अहह, सर्वे मां बाल इति वदन्ति। अहं मम बलं परीक्षे।

गणेशः—बाढम्.. त्वं तु शक्तहस्तः। अतिबलवानसि। अलं परीक्षया। अधुना त्वं धाव। अहं ग्रहीष्यामि।

कुमारः—इतः धावामि। धर माम्।

गणेशः—(किञ्चित् धावित्वा, श्वासावरोधमनुभवन्) कियता वेगेन धावसि, अहो। अहं तु श्रान्तः।

कुमारः—तुन्दिलस्त्वम्। अतः धावने क्लेशमनुभवसि। मोदकप्रियोऽसि। अधिकं मा खादतु इति वदति पिता सदा।

गणेशः—आम्। किमहं कुर्याम्? मातान्नपूर्णेश्वरी स्वादु मोदकान् पचति। अहं तान् दृष्ट्वैव बुभुक्षामि।

कुमारः—आम्। जानामि, अनुभवेदानीं तत्फलम्। (इति तत्करं कर्षति)

गणेशः—रे अर्भक, मा कुरु तथा। विसृज मत्तुण्डम्।

कुमारः—अहहह, आर्य, तव शुण्डे मामुपावेश्य उत्थापय सकृत्। सा क्रीडा मह्यं रोचते। अधोधः, उपर्युपरि, अधोधः, उपर्युपरि... तथा डोला इव कुरु। अधुनैव कुरु।

गणेशः—मास्तु। तदानीं तु त्वं बालः आसीः। अधुना मम शुण्डायां शक्तिर्नास्ति, त्वां तारकहन्तारं सोढुम्।

कुमारः—अह, कुतः करोषि नर्म? सर्वं मृषा। त्वं मत्तः बलवानसि। बुद्ध्यापि, शक्त्यापि, पित्रोः वात्सल्यप्राप्तावपि। अहं स्मरामि, त्वमुपायशीलः कथं गाणापत्यं प्राप्तवानिति।

गणेशः—(हसन्) किं तेन?

कुमारः-- अत्रैवोषित्वा पित्रोः परिक्रमणं कृत्वा भूप्रदक्षणफलं लब्धवानासीः। अतः गणाधिपत्यं प्राप्य तन्निर्वहणे कियन्तं भारमनुभवसि, तदहं जानामि।

गणेशः—गणनायकत्वेन किं भवति?

कुमारः-- देवाः न मूर्खाः, शक्तिहीनं त्वां गणाधिपतिं कर्तुम्। अतः अधुनैव मां शुण्डायां उपावेशय। अधुनैव.. अधुनैव..।

गणेशः— (विहसन्) अस्तु..। आगच्छ। त्वत्कृते किं शुण्डया? अहं शिरसि उपावेशयामि। आगच्छ।

कुमारः—(सवात्सल्यं) त्वं मम प्रियभ्रातः। अत्यन्तं त्वयि स्निह्यामि।

(इति द्वावपि सप्रेम खेलतः।)