Sunday, 13 August 2017

नाटकम्-१ - त्रयः मत्स्याः

दृश्यम् 1
सुमतिः— ह्रदोऽयं कियान् सुन्दरः.. अरण्यमिदं कियत् शान्तम्..

कालमतिः— आम्.. सत्यम्.. सुन्दरमेव ।

मन्दमतिः— म् म् म्..

सुमतिः— वयं मित्राणि सर्वदा सुखेन अत्र भविष्यामः.. निर्मलेऽस्मिन् जले.. विहरन्तः.. खादन्तः.. हसन्तः.. खेलन्तः..। मन्दमतिः— तथा..। जल्पन्तः.. शयानाः...

सुमतिः— वयं एकत्र भवामः, सप्रेम जीवामः किन्तु.. जाने कुतः.. तदापि कदाचित् भविष्यति सत्यां विपत्तौ मम भयं भवति।

कालमतिः— अहं तु कालमनुसृत्य चरामि। त्वं सदा अधिकं चिन्तयसि..। अलं चिन्तया।

मन्दमतिः— आम्। वृथा त्रस्तः भवसि।

कालमतिः— सुमते, त्वं तु विजानासि सर्वम्। आपदः रक्षिष्यसि अस्मान्। सर्वदा तव परामर्शैरेव किल ह्रदे वयं सर्वे सुखेन भवामः। अधुना चिन्तां त्यज, आगच्छ, खेलामः।

सुमतिः— आम्। अस्तु.. आगच्छ, मन्दमते.. ।

मन्दमतिः— म् म्



दृश्यम् 2

सुमतिः— अद्य मम मनः खिद्यते। (किमपि श्रुण्वन्) तत्र कोऽपि वार्तालापं करोति। इतः पश्यामि। तत्र पुरुषौ किमपि सँल्लपतः। किं वा वदतः तौ? (श्रुणोति)

धीवरः 1— ह्रदोऽयं मत्स्यैः पूर्णः अस्ति। श्वः आगत्य अत्र जालैः मीनान् आहरामः।

धीवरः 2— आम्। अद्य तु जालं नानीतम्। याहि।

धीवरः 1— मत्स्यान् एतान् दृष्ट्वा गमनेच्छा नास्ति.. अधुनैव तान् गृहीत्वा निर्बध्य विक्रीय कियद्धनं लप्स्ये इति विचारेण नन्दामि..।

धीवरः 2— नन्द, नन्द। श्वः अन्यानपि धीवरान् आनयावः। अधिकस्याधिकं फलम्। आगच्छ.. चलावः।

(द्वौ निस्सरतः)

सुमतिः— (सभयं) भगवन्, किमिदं..? मत्स्यबन्धकाः आगत्य अस्मान् धरिष्यन्ति.. अहो.. महापदो महापदः..

कालमतिः— किमभवत्? किं चिन्तयसि? किं भणसि आत्मनि..?

सुमतिः— श्वः वयं सर्वे मरिष्यामः। आगच्छन्तु, ते मत्स्योपजीविनः आस्मान् धरिष्यन्ति। ह्रदे सर्वान् वद.. अविलम्बं चलामः इतः अन्यत्र।

कालमतिः— अहो, कियान् भीतो भवान्!! मास्तु भयः।

मन्दमतिः— सर्वं मृषा। न कोऽपि आगमिष्यति.. न किमपि करिष्यति वा।

सुमतिः— अलं विवादेन। चलतु। मास्तु चर्चा। अवश्यं प्राणाः रक्षणीयाः।

कालमतिः— श्वः किल आपदः समयः!! श्वः पश्यामः.. कः क्लेशः? अहं तु कालानुगतो जीवी अस्मि।

मन्दमतिः— अहं तु कुत्रापि न गमिष्यामि। गच्छन्तु ये गमनेच्छुकाः। अहं धैर्यशाली।

सुमतिः— बाढम्। अहं तु प्राणान् रक्षामि। ह्रदे ये अन्ये मत्स्याः, तानपि ज्ञापयामि। अन्यत्र सुरक्षितं स्थानमेष्यामि च।

कालमतिः— साधु..। गच्छ तात यथासुखम्।

मन्दमतिः— सर्वेऽत्र भयभीताः। अहं तु निश्चलः। इहि त्वमेकाकी।

सुमतिः— मन्दः त्वम्। यदा ते कैवर्ताः आगत्य स्वेच्छां परिपूर्य, स्वकार्यं निर्वर्त्य निर्गमिष्यन्ति, तदा पुनरायामि। यदि जीवेयुः भवन्तः, तर्हि मिलिष्यामि।

कालमतिः— शुभं भूयात्तव।

मन्दमतिः— शुभमस्तु।

(सुमतिः निर्गच्छति)



दृश्यम् 3

धीवराः— अहो आनन्दः, अहो हर्षः.. सर्वे मत्स्याः अस्माकम्। गृह्णन्तु.. तत्र जालं क्षिपन्तु..। अरे मीन, कुत्र तरसि? आगच्छ, जाले पत। अहहहह अहहहह।

मीनाः— हा धिक्। आपदः, आपदः। विपन्ना वयम्। रक्ष रक्ष। इतः धाव। तत्र जालं नास्ति.. तत्र तर। हा अहो।

कालमतिः— यदुक्तं सुमत्या, तत् सत्यम्। अधुना किं वा कर्तव्यम्? कियद्दूरं धावामि? कथं रक्षामि..

(कश्चित् मात्स्यिकः कालमतिं धरति)

कालमतिः— अपेहि, त्यज। मां विसृज। गच्छ.. अहो, अहमपि पतितः जाले। अधुना को वा रक्षेन्माम्? सुमत्याः वचनं श्रोतव्यमासीत्।

मन्दमतिः— अहं न भीतः। अहं रक्षिष्यामि स्वम्। (कण्ठगतप्राणः विचलति)

कालमतिः— अयं तु भीतेर्विषयः मन्दमते। अहं तु उपायेन रक्षामि स्वप्राणान्। निर्गतप्राण इव आत्मानं दर्शयामि। त्वमपि तथा कुरु। श्वासमपि निर्बध्य तिष्ठ। मा चल।

मन्दमतिः— जलेन विना मम प्राणाः व्यपगच्छन्ति.. कथं वा अचलं तिष्ठेयम्?

कालमतिः— तूष्णीं भव। किमहं जलान्तः भवामि? ममापि सैव स्थितिः यथा तव। किन्तु प्राणान् रक्षितुमेव एष उपायः।

मन्दमतिः— अहो, धिक्, हा, अहो.. रक्ष। रक्ष।

कालमतिः— (आत्मनि) एषः बुद्धिहीनः। अहं तु विगतप्राणः इव नटामि। (तथैवाचरति अचलं च तिष्ठति)

मन्दमतिः— म्रियेऽहम्। मा धर माम्। त्यज। अपसृज।

धीवरः1— (मन्दमतिं दृष्ट्वा) सः न मृतोऽधुनापि। जाले एव भवतु सः। (कालमतिं दृष्ट्वा) मृतः एषः मत्स्यः। इमं द्रोण्यां क्षिप। (जालिकः तं द्रोण्यां क्षिपति)

कालमतिः— (आत्मनि) रक्षितोऽहम्। उपायः सफलो जातः। जालात् बहिः क्षिप्तोहं झटिति जले कूर्दामि, वेगन अन्तः तीर्त्वा आत्मानं रक्षामि च। (तथाचरति)

मन्दमतिः— हा धिङ्, मृतोऽहम्।

कालमतिः— (सदुःखम्) एषः मन्दभाग्यः मृतः। अन्तिमे क्षणेऽपि मूर्ख इवाचरितवान्। श्वः सुमतिः आगमिष्यति। तदानीं आवां द्वावेव भवावः। गतः एषः सुहृत्।

--------------------------

Thursday, 10 August 2017

सँल्लापः - ८ – गणेशः, कुमारः च

गणेशः-- कुमार, आगच्छ, खेलावः।

कुमारः-- नाहं त्वया खेलामि। त्वं सर्वदा ज्येष्ठ इवाचरसि। सुहृदिव न।

गणेशः-- अस्तु, अधुना न करिष्यामि। आयाहि। अन्यदेवतानां केषामपि बालाः न सन्ति किल। अतः आवामेकाकिनौ।

कुमारः—सत्यम्। अस्तु, किं खेलावः?

गणेशः—अहं धावामि, त्वं मां गृहाण। त्वयि मां गृहीते पुनरहं त्वां धावन्तं ग्रहीष्यामि।

कुमारः—अथ किम्। तर्हि धाव। त्वामहं क्षणद्वये ग्रहीष्यामि। (तथैव धावन्तं भ्रातरं गृह्णाति च)

गणेशः—अरे, त्यज। ग्रहणं नाम केवलं स्पर्श एव। न पुनः स्कन्धयोः उत्थापनम्। न मामुद्धरैवम्। उत्सृज।

कुमारः—अहह, सर्वे मां बाल इति वदन्ति। अहं मम बलं परीक्षे।

गणेशः—बाढम्.. त्वं तु शक्तहस्तः। अतिबलवानसि। अलं परीक्षया। अधुना त्वं धाव। अहं ग्रहीष्यामि।

कुमारः—इतः धावामि। धर माम्।

गणेशः—(किञ्चित् धावित्वा, श्वासावरोधमनुभवन्) कियता वेगेन धावसि, अहो। अहं तु श्रान्तः।

कुमारः—तुन्दिलस्त्वम्। अतः धावने क्लेशमनुभवसि। मोदकप्रियोऽसि। अधिकं मा खादतु इति वदति पिता सदा।

गणेशः—आम्। किमहं कुर्याम्? मातान्नपूर्णेश्वरी स्वादु मोदकान् पचति। अहं तान् दृष्ट्वैव बुभुक्षामि।

कुमारः—आम्। जानामि, अनुभवेदानीं तत्फलम्। (इति तत्करं कर्षति)

गणेशः—रे अर्भक, मा कुरु तथा। विसृज मत्तुण्डम्।

कुमारः—अहहह, आर्य, तव शुण्डे मामुपावेश्य उत्थापय सकृत्। सा क्रीडा मह्यं रोचते। अधोधः, उपर्युपरि, अधोधः, उपर्युपरि... तथा डोला इव कुरु। अधुनैव कुरु।

गणेशः—मास्तु। तदानीं तु त्वं बालः आसीः। अधुना मम शुण्डायां शक्तिर्नास्ति, त्वां तारकहन्तारं सोढुम्।

कुमारः—अह, कुतः करोषि नर्म? सर्वं मृषा। त्वं मत्तः बलवानसि। बुद्ध्यापि, शक्त्यापि, पित्रोः वात्सल्यप्राप्तावपि। अहं स्मरामि, त्वमुपायशीलः कथं गाणापत्यं प्राप्तवानिति।

गणेशः—(हसन्) किं तेन?

कुमारः-- अत्रैवोषित्वा पित्रोः परिक्रमणं कृत्वा भूप्रदक्षणफलं लब्धवानासीः। अतः गणाधिपत्यं प्राप्य तन्निर्वहणे कियन्तं भारमनुभवसि, तदहं जानामि।

गणेशः—गणनायकत्वेन किं भवति?

कुमारः-- देवाः न मूर्खाः, शक्तिहीनं त्वां गणाधिपतिं कर्तुम्। अतः अधुनैव मां शुण्डायां उपावेशय। अधुनैव.. अधुनैव..।

गणेशः— (विहसन्) अस्तु..। आगच्छ। त्वत्कृते किं शुण्डया? अहं शिरसि उपावेशयामि। आगच्छ।

कुमारः—(सवात्सल्यं) त्वं मम प्रियभ्रातः। अत्यन्तं त्वयि स्निह्यामि।

(इति द्वावपि सप्रेम खेलतः।)

Wednesday, 19 July 2017

विचारः-१ - अपि कर्णः सुहृत्??

पूर्वपक्षः-
    
अद्य कश्चन सन्देशः प्रेषितः, यत्र-- कर्णः महान् सुहृदिति, सः निश्चितेऽपि मरणे मित्राय युद्धं कृतवानिति, अतस्तादृशं मित्रं सर्वेषां भवतु इति चोक्तम्।

समाधानम्-
    कर्णवत् ये दुष्टास्तेषां महत्त्वापादनादिकं सनातनधर्मस्य हननकार्यान्तर्गतं क्रियते। एवं दुष्टत्वस्य औन्नत्यापादनेन सामान्यजनाः धर्मस्य साधुतासाधुतानिर्णये भ्रान्ता भवन्ति। अत्र पतनदशा एतादृश्यापतिता यत्र तादृशः कर्णमैत्र्याः महत्त्वप्रतिपादकसन्देशः संस्कृतेऽपि प्रेष्यते। अयं सन्देशः अस्मासु प्रवर्धमानस्य धार्मिकाज्ञानस्य परिचायकः वर्तते।

     कर्णः ‘मित्रधर्मं न पालितवान्’ इति यत् तथ्यम्, त’दामरणं मित्राय अयुध्यदि’ति उक्त्या आच्छादितः।

वस्तुतः मित्रधर्मः कः?
पापान्निवारयति योजयते हिताय
गुह्यं च गूहति गुणान् प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥
        इति प्रख्यातं सुभाषितमस्ति, यत्र सन्मित्रलक्षणं सुष्ठु प्रतिपादितम्। तस्य दृष्ट्या कर्णः मित्रधर्मं पालितवान्न वेति पश्यामः। अनेन कर्णस्य सत्यासत्यं बहिरागच्छति।

सुभाषितस्यार्थः- सन्मित्रं पापाचरणात् स्वमित्रं निवारयति। हितकार्येषु नियोजयति। रहस्यं निगूढं स्थापयति। सद्गुणान् बहिः प्रकटीकरोति । विपत्तौ (पतितं मित्रं मार्गे) न त्यजति। आवश्यकताकाले (अपृष्टोऽपि) ददाति। एतानि सन्मित्रस्य लक्षणानि, इति सज्जना वदन्ति ॥

पापान्निवारयति--
कर्णः दुर्योधनं पापात् न न्यवारयत्, अपि तु तं तस्मै प्रेरितवान्, तस्मिन् प्राक्षिपत् च। स एव द्रौपदीं विवस्त्रां कर्तुमुक्तवान् यदा सा सभायां दासीधर्मविषये जिज्ञासते स्म।

योजयते हिताय--
वस्तुतः पदे पदे यत्र दुर्योधनः शान्त आसीत्, तत्रापि एष एव पाण्डवान् अवमन्तुं, परिभावयितुम्, अवसादयितुं च तं नैकवारं प्रेरितवान्, येन अन्ते दुर्योधनस्य अहितः प्राप्तः।

गुह्यं च गूहति गुणान् प्रकटीकरोति--
(कर्णसन्दर्भे गुणदोषव्यवहारः) कर्णस्य शक्तौ विश्वासं संस्थाप्य एव दुर्योधनः युद्धाय सन्नद्धोऽभवत्। धूर्तः, शठः च कर्णः स्वस्य शापानां विषयमत्यन्तं घनिष्ठं मित्रं दुर्योधनं कदापि नोक्तवान्। (तस्य आयुधाः युद्धसमये अवसरे प्राप्ते उपयोगाय न भवन्तीत्यादिशापाः बहवः तस्यासन्।)

आपद्गतं च न जहाति--
वने गन्धर्वैः दुर्योधने गृहीते सति, एष ततः भीरुरिव पलायितवान्। भारतमहायुद्धे दशदिनानि यावत् अहंकारकारणेन युद्धमपि न कृतवान्।

ददाति काले--
श्रीकृष्णात् स्वस्य कुन्तीपुत्रत्वं ज्ञात्वा, अयाचितमेव राज्यप्राप्तिर्यदा सम्भूता, तदानीं दुर्योधनं राजानं कृत्वा युद्धं निवारयितुं तस्य समीप अवकाश आसीत्। किन्तु पाण्डवेभ्यः मात्सर्यभावपूर्णः स तथा अकृत्वा युद्धायैव प्रयतितवान्।

अतः कः गुणः कर्णे अस्ति, येन सः सुष्ठु सुहृत् इति प्रकीर्तितः? 

-------------------------

क्या कर्ण मित्र है?
पूर्वपक्षः--
            आज कोयी सन्देश भेजा गया है- जिसमें - कर्ण महान मित्र है, उसने मृत्यु निश्चित होने पर भी युद्ध किया, अतः ऐसा मित्र सभी का हो - ऐसा बताया गया है।
समाधानम्-
            कर्ण के जैसे दुष्ट व्यक्तियों पर महानता का आपादन करना सनातनधर्म के विनाश कार्य के अन्तर्गत किया जा रहा है। इस प्रकार दुष्टता को औन्नत्य के रूप में दिखाने से सामान्य लोग धर्म के साधुता असाधुता विषयमें निर्णय करने में भ्रान्त होजाते हैं। अब पतन दशा ऐसी आगयी है, कि कर्ण की मैत्री को महान कहता हुआ सन्देश (हिन्दी व) संस्कृत में भी भेजा जाने लगा। यह सन्देश हमारे अन्दर प्रबलरूप से बढता हुआ धार्मिक अज्ञान का परिचायक है।
            कर्ण ने किसी मित्रधर्म को पालन नहीं किया- यह तथ्य इस बात के पीछे छुपाया गया है कि उसने मरने तक मित्र के लिये युद्ध किया।
वस्तुतः मित्रधर्म क्या है?
                        पापान्निवारयति योजयते हिताय
                        गुह्यं च गूहति गुणान् प्रकटीकरोति ।
                        आपद्गतं च न जहाति ददाति काले
                        सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥
            यह एक सुभाषित है, जिसमें मित्र के लक्षण अच्छी तरह बताये गये हैं। उस दृष्टि से कर्ण ने मित्रधर्म का पालन किया या नहीं, ये देखते हैं। उससे कर्ण का सारा सच सामने आयेगा।
            सुभाषित का अर्थ- सच्चा मित्र पापाचरण से अपने मित्र को रोकता है। हितकारी कार्यों मे उसे लगाता है। रहस्यों को छुपाकर रखता है। सद्गुणों को प्रकटित करत है। विपत्ति में पड़े मित्र को मध्य मार्ग में नहीं छोड़ता है। आवश्यकता पड़ने पर बिना पूछे देदेता है। ये सब अच्छे मित्र के लक्षण हैं- ऐसा सज्जन कहते हैं।
            पाप से रोकता है-- कर्ण दुर्योधन को पाप से रोका नहीं.. बल्कि उसे पापके लिये प्रेरित किया। उसमें ढकेला। उसने द्रौपदी को वस्त्रहीना करने को कहा, जब वो दासीधर्म के बारे में सभा में जिज्ञासा कर रही थी।
हित में नियोजत करता है-
            वस्तुतः पद पद पर दुर्योधन जब शान्त था, तब भी इसी ने पाण्डवों को अपमानित करने के लिये, उनकी अवहेलना करने के लिये बहुत बार उसे प्रेरेपित किया, जिससे अन्त में दुर्योधन की दुर्गति होगयी।
रहस्य को छुपाता है और गुणों को प्रकट करता है-
            (कर्ण के सन्दर्भ में ) कर्ण की शक्ति पर विश्वास करके ही दुर्योधन युद्ध के लिये सन्नद्ध हुआ था। कर्ण जो धूर्त, और शठ है, अपने शापों के बारे में अपने ही घनिष्ट मित्र को कभी नहीं बताया। (उसके अस्त्र युद्ध में अवसर पड़ने पर काम नहीं आयेंगे- ऐसे उसके कई सारे शाप थे।)
विपत्ति के समय नही छोड़ता है-
            वन में गन्धर्वों द्वारा पकड़े जाने पर वह दुर्योधन को छोड़कर भागगया था। भारत के महायुद्ध में भी दस दिन तक उसने अहंकार वश युद्ध नहीं किया।
सकाल में देता है-
            श्रीकृष्णसे अपने कुन्तीपुत्र होने की बात जानकर, बिना मांगे राज्यप्राप्ति होने पर, तब दुर्योधन राजा बनाकर युद्ध का निवारण कर सकता था - उसके समीप अवसर था। पर पाण्डवों पर मत्सरता के कारण ऐसा न करके युद्ध के लिये ही प्रयत्न किया।  
तो बतायिए अब कर्ण में ऐसा कौन सा गुण है, जिससे वह अच्छा मित्र बताया गया है?

अनूक्तम्-२ - परमात्मा आवश्यक उत श्वासः?

कदाचित् कश्चित् बालः कञ्चित् महात्मानमुपगम्योवाच— “अहं परमात्मानं द्रष्टुमिच्छामि। मां तेन योजय।” इति।

महात्मा प्रत्युवाच— “नैतत् तव प्रेम। केवलेच्छाधुना।” इति।

बालकः— मा स्म वदस्तथा। साम्प्रतमेवाहं तं द्रष्टुकामः। दर्शय मे।

महात्मा— नैषा क्रीडा, बाल। अस्मिन् स्वस्यान्तः (नाशः) भवेत्।

बालकः— नास्ति क्लेशः तात। संसिद्धोऽहम्।

महात्मा— स्वस्यापि त्यागः कार्यस्त्वया। दृढं स्मरतु एतत्।

बालकः— अस्तु तात।

महात्मा तं सरोवरमनयत्। स्नानं कुर्वित्यवदत् च। सः जलकुण्डं प्रविष्टः। महात्मा तस्य कण्ठं गृहीत्वा तं जले न्यमज्जत्। सः बालः श्वासार्थं परितप्तः। यदा महात्मा तं व्यमुञ्चत्, तदा स्थूलं निःश्वसन् सोऽवदत्— “मम श्वासः अवरुद्ध आसीत्।” इति।

महात्मा प्रत्यवोचत्— “इत्थमेव प्राप्स्यसि परमात्मानम्।” इति।

ततः तं पुनः न्यमज्जत्। पुनः व्यमुञ्चद्यदा, तदा सः कृच्छ्रोछ्वासः, “श्वासः मम निरुद्धः। एवं माचरतु” इत्युक्तवान्।

महात्मा अपृच्छत्— “अधुना वद, परमात्मा आवश्यकः, उत श्वासः?” इति।

सः अवष्टब्धश्वासः काठिन्येनावदत्— “श्वासः” इति।

महात्मा अकथयत्— “यदा तुभ्यं श्वासादपि परमात्मा एव प्रियः भविष्यति, तदानीं मत्समीपमागच्छ।” इति।

विषयमधिगत्य बालकः निर्गतः॥

अनूक्तम्-१ - लुण्ठाकस्य पापक्षयः

कश्चित् महान् लुण्ठाकः आसीत्। सः आजीवनं परेषां धनमपहरन्, बहून् लुण्ठन् चासीत्। सप्ताशत् जनान् चाहनत्। अन्ते तस्य मनसि घृणितं तत् कार्यं प्रति विरक्तिः जनिता। लुण्ठनकर्म परित्यज्य सः पापानां शोधनार्थं कञ्चित् साधुपुङ्गवं शरणमन्वगच्छत्।

साधुः तस्य वृत्तान्तं सान्तं श्रुत्वा एवमवदत्– “भ्रातः, तव पापं भृशं वर्तते। सप्ताशत् जनानां हननं न सामान्यं पापम्।” इति।

लुण्ठाकोऽगदत्– गुरुदेव, कठिनातिकठिनं प्रायश्चित्तं वदतु। अहम् अनुष्ठामि” इति।

साधुः तं काञ्चित् पताकां दत्त्वा एवमभणत्– “इमां कृष्णपताकां गृहीत्वा धरायाः स्थितानि समस्ततीर्थानि पर्यट। स्वयमपि स्नानं कुरु, तामपि स्नपय। यस्मिन् तीर्थे इयं कृष्णपताका श्वेततामाप्स्यति, तदा तव पापानि अपक्षीणानीति जानातु” इति।

गुरोः आज्ञां शिरसि धृत्वा लुण्ठाकः ततः निरगच्छत्। सः समस्तासु सरित्सु सर्वपवित्रतीर्थेषु च स्वयं स्नानं करोति स्म, पताकामपि मज्जयति स्म। किन्तु तत्र न किमपि वर्णपरिवर्तनं तेन दृष्टम्। सः दुःखितो भूत्वा– ‘मम पापानां प्रायश्चित्तमसम्भवम्। एका हत्यैव महापातकाय, सप्ताशत् हत्याः कथं परिहरेयुः?’ इति एवं विचिन्त्य, समस्ततीर्थेषु स्नात्वा गुरुमुपयान्तुं गच्छति स्म। मार्गमध्ये तत्र घनं वनं प्रविष्टव्यमापतितम्।

अकस्मात् वने तेन आक्रन्दनं किञ्चित् श्रुतम्। दयार्द्रचित्तः सन् सः ध्वनेः अनुगमनं कुर्वन् कञ्चित् वृक्षाणां सञ्चयं प्राप्तवान्। तत्र सः दशलुण्ठाकान् अपश्यत्- ये काञ्चित् सत्कुले जातां कुलवतीं, सुन्दरीं च स्त्रियं आनीय बलात्कारं कर्तुं प्रयतन्ते स्म। तेषां नरपशूनां जाले पतिता सा अबला जलाद् भिन्ना मीनेव, व्याधहस्ते पतिता मृगीव कम्पते स्म। अश्रु विमोचते स्म। तस्याः दयनीयां दशां दृष्ट्वा दस्योः तस्य हृदयं द्रवितमभवत्। तीर्थयात्रया तस्यान्तःकरणं विशुद्धमभवत्। विशुद्धे अन्तःकरणे एव दयायाः सञ्चरो भवति। दयावान् पुरुषः एव परेषां पीडां दृष्ट्वा तदपनेतुं प्रयतते।

पूर्वाभ्यासमनुसृत्य लुण्ठाकः नित्यं खड्गं धरति स्म। सः एवमचिन्तयत्– ‘अस्तु, यथा सप्ताशत्, तथैवाशीतिः। यदि पापानां प्रायश्चित्तः असम्भवः, तर्हि अस्याः आपद्गतायाः अबलायाः उद्धारः कर्तव्य एव।’ इति।

इत्थं विचार्य सः खड्गेन दशानां शिरांसि विच्छिन्नवान्। तदानीम् अक्ष्णोः पुरतः तस्य पताका वर्णं परिवृत्त्य श्वेता अभवत्। लुण्ठाकः अपरिमितानन्देन तामबलां स्वस्थानं प्रापय्य, स्वयं च गुरोः समीपमधावत्, तं च पादयोः पतित्वा प्राणमत्। श्वेतपताकां दृष्ट्वा गुरुरपि तस्य प्रायश्चित्तमभवदिति अबोधत्। गुरुः आशीर्ददन् अपृच्छत् च– “वत्स, कस्मिन् तीर्थे तव पताका श्वेता अभवत्?” इति।

लुण्ठाकः साञ्जलिः– “असितीर्थे, गुरुवर्य।” इत्यवोचत्। सर्वं च वृत्तान्तं गुरुमशंसत्। “दश नरपिशाचान् हत्वा सप्ताशत् सङ्ख्यां अशीतिं कृतवान् तदेयं पताका श्वेताभवत्। कारणं किमत्र?” इति अपृच्छत्।

साधुः हसन् निरगदत्– “पूर्वं कृताः हत्याः त्वया स्वार्थवशं कृताः। दुष्टभावेन च आचरिताः। एता दश तु परार्थाय, दयावशात् च नार्यः रक्षायै कृतवानिति महत् पुण्यमनुष्ठितं त्वया। अनेन कार्येण तव पापानि क्षीणानि।” इति।

लुण्ठाकः अत्यन्तमानन्दितः सन् गुरुसेवायां शेषजीवनं व्यतीतमकरोत्॥

लहरी-४ - और्वानलः

और्वः घोरं तपः कुर्वन्, पितृदेवैः आज्ञप्तः तपसः व्यरमत्। तपोऽनलः तं न दहेत्, अतः तं समुद्रान्तं परितत्याज। स एव और्वानलः भूत्वा अश्वरूपमधरत्। सन्तानाय (पुनः) और्वे घोरं तपः कुर्वति मुनयः आगत्य- ‘पुत्रेभ्यः तपः कुतः आचरसि? पत्नीसङ्गत्या पुत्रः जनिष्यते किल?’ इति अवादिषुः। ‘ब्रह्मादीनां तपोमहिम्ना मानसपुत्राः अजायन्त किल। अहमपि तथैव प्रसविष्यामी’ति उक्त्वा और्वः ऊरुं मथित्वा अग्निमज्वालयत्। अग्निः साक्षात् पुत्ररूपेण उत्पन्नः। तस्य तेजः आदिशान्तं व्याप्तम्। लोकाः तत् सोढुं नाशकन्। ब्रह्मा आगत्य- ‘एषः तव पुत्रः एव भविष्यति। तव सुतः अर्णवे और्वानलरूपेण स्थास्यति। प्रलयकाले मम तेजः अपि तस्मिन् प्रवेक्ष्यति।’ इति उक्त्वा और्वं समाधाय तमग्निं समुद्रे न्यस्थत्। स एव और्वानलोऽभवत्॥
(पूर्वगाथालहर्याः) 



लहरी-३ - उपमन्युः

एषः कश्चन ब्राह्मणबालः। बाल्ये एषः, माता च वने वसतः स्म। शैशवे यदा अयं दुग्धाय रुरोद, तदानीं जननी तं जले पिष्टं मेलित्वा अपाययत्। सः तत् पीत्वा पयः नास्तीति ज्ञात्वा पुनः अरुदत्। वने क्षीरं कुत आनयामीति माता पप्रच्छ। ‘अहं आनेष्यामी’ति उपमन्युः शिवं प्रार्थितुं जगाम। सः कतिपयदिनानि तपः चकार। शिवः तस्य परीक्षणाय इन्द्ररूपं धृत्वा प्राकटत्। अप्राक्षीत् च, “किमिच्छसी”ति। “त्वां न किमपि याचे, शिवाय प्रार्थयामी”ति एष अवोचत्। “त्वं बालः। न तादृशं घोरतपः कर्तुं प्रभवसि। यदिच्छसि, तदहं दास्यामी”ति इन्द्ररूपी शिव अवादीत्। परं तु तं किमपि अपृष्ट्वा उपमन्युः तस्मिन् मन्त्रपूतं भस्म प्रचिक्षेप। तेन शिवः स्वरूपेण उपस्थितो भूत्वा, उपमन्युः यदा यदा इच्छेत्, तदा तदा आहारलाभाय दधि-क्षीराम्बुधौ अस्राक्षीत्॥
(पूर्वगाथालहर्याः)

लहरी-२ - गौतमी

सा काचिद् ब्राह्मणी स्त्री आसीत्। तस्याः पुत्रः सर्पदष्टः मृतः। गौतम्याः दुःखेन रोदनं श्रुत्वा कश्चन व्याधः तत्रागतवान्। सः तं सर्पं गृहीत्वा तस्य शिरः भञ्जयामीति उक्तवान्। ‘को लाभस्तेन? मम पुत्रस्तु पुनः न प्राणं धरिष्यति। तस्य कर्म तादृक्। किमपराद्धं सर्पेण?’ इति गौतमी व्याधमगदत्। सर्पोऽपि ‘किमहं कर्तुं शक्नोमि? मृत्युः मां प्रैरयत् दष्टुम्। दोषः मृत्योः, न मम। अतः तं दण्डयतु, न माम्। इति अवदत्। मृत्युरागत्य ‘कालः मां न्ययुङ्क्त। यथा कालेनादिष्टः, तथाचरम्। नाहं दोषी’ इति अवदत्। कालः आगत्य ‘एतत् कार्यं ‘कश्चित् कृतवान्, कश्चित् हतवान्’ इति विचारः असाधुः। यस्य कर्म यथा, तदनुसृत्य सर्वं प्रवर्तते। अन्ये निमित्तमात्राः। मृतस्य बालस्य कर्म एव सर्वं प्रचोदयति। नान्यत्। अतः सर्पो वा, मृत्युर्वा अहं वा नास्य मरणे कारणम्। अतः अत्र न केऽपि दण्ड्याः।’ इति न्यगदत्। व्याधः सर्पं त्यक्तवान्॥ 
(पूर्वगाथालहर्याः)

लहरी-१ - चन्द्रसेनः

एषः उज्जयिनीपालकः आसीत्। अयं मणिभट्टनामकात् योगिनः चिन्तामणिं प्राप्तवान्। तत्प्रभावात् अस्य सर्वाणि वस्तूनि स्वर्णमयानि भवन्ति स्म। तज्ज्ञात्वा शत्रुनृपाः तमाक्रान्तुमागतवन्तः। अयं तदवगम्य शिवाराधनम् आरब्धवान्। अमुं दृष्ट्वा कश्चित् गोपबालकः अपि शिलानिर्मितस्य शिवलिङ्गस्य पूजनमारब्धवान्। तस्य माता अन्नादनाय आहूतवती। किन्तु सः नागतवान्। अतः कुपिता सा लिङ्गं पादेनाताडयत्। तस्मात् खिन्नः बालः शिवैकध्यानमग्नः स्थितः। अकस्मात् तद्भक्तिप्रभावात् तत्र स्वर्णमयः देवालयः स्वयमाविरभूत्। तमद्भुतघटनां दृष्ट्वा युद्धायागताः अरिराजानः युद्धं विरम्य चन्द्रसेनेन सन्धिं कृत्वा गोपकुमारस्य दर्शनेन पुलकिताः निरगच्छन्। तस्य गोपकस्य अष्टम्यां वंशश्रेण्यां नन्दनामकः कश्चन जनिष्यते इति, तद्गृहे साक्षात् श्रीमन्नारायणः अवतरिष्यतीति हनूमान् अकथयत्

(पूर्वगाथालहर्याः)

सँल्लापः-७ - शिवः माता च।



(अजन्मनः शिवस्य नास्ति माता पिता वा। तथापि तस्य महादेवस्य चेन्माता भवेत्, सँल्लापः इत्थमेव भवेदिति ऊहा।)
माता-- शिव, शिव, कुत्रासि अर्भक..? किं च करोषि?
शिवः-- पश्याम्ब! अहमत्रास्मि।
माता-- (समीपमागत्य) अहो, कतिवारमवदं, सर्पैः सह मा खेल इति।
शिवः-- न खेलामि। तान् आभूषणानि कृत्वा धरामि। कण्ठे हारा इव, भुजयोः केयूरा इव, पदयो नूपुराणीव च धरामि तान्।
माता-- त्वां सर्पैः सह दृष्ट्वाहं बिभेमि। दशेयुस्ते। त्यजाविलम्बम्।
शिवः-- (हसित्वा) अत्र भयहेतुः कः? सर्पा एव किल मम भूषणानि। मृदवः, कोमला एते भूषणैरपि इष्टतमाः मम। अतः एषः लघुसर्पः मम शिरः आरोहति। एनं जटाजूटे योजयामि। (सर्पं) रे सर्प, तिष्ठ निमेषम्।
माता-- हरे! रक्ष मम सूनुम्!
शिवः-- (हसित्वा) स एवाहं, अहञ्चैव सः। स किं रक्षति माम्? मम इष्टविरुद्धं स न किमप्याचरिष्यत्यम्ब।
माता-- तदस्तु जात! स तव मित्रं किल। पीताम्बरयुक्तस्सन् स्वर्णाभूषणानि धरति, शङ्खचक्रगदापद्महस्तः शोभते च!
शिवः-- शोभतां नाम! अहमपि मम शिरसि चन्द्रं धरामि। कण्ठश्च नीलो मम। किं नाहं शोभे?
माता-- अस्तु। यत्किमपि धरतु दारक! नाहमाक्षिपामि। किन्तु चिताभुवौ कुतः विहरसि? शरीरे एतत् सर्वं किं लेपितम्?
शिवः-- चिताभस्म मातः! सति भस्मनि किमन्यलेपनैः? चिताभुवौ दग्धस्य भस्मनः परिमलं मह्यं रोचतेतीव।
माता-- अहो मम भाग्यम्! अन्यैरिव कुतः सामान्य इव नाचरत्येषः?! पश्य, रे माणवक, त्यज तत् सर्वम्। सपदि गृहमागच्छ। अहं त्वां स्नपयामि, ततश्च कङ्कतिकया केशमार्जनं करोमि।  
शिवः-- मास्तु मातः। मम शिरसि गङ्गा अस्ति। मूर्धजानां प्रसाधनेन सा अधः पतेत्।
माता-- कुतस्तां भागीरथीं वृथा जटाजूटे स्थापितवान्? तां तु भगीरथः स्वपितॄणां तर्पणाय स्वर्गादानीतवान् किल!
शिवः-- आम्। सा बहुवेगेन गच्छन्ती भूमिं पीडयति। अतः अहं तामशेषां गृहीत्वा जटाजूटे स्थापितवान्। सा महान्तं कोलाहलं करोति अन्तः। अतः गह्वरं न ददामि। क्रमशः किञ्चित् जलं बहिः सारयामि।
माता-- भगवन्! कीदृशः बाल एषः! अस्तु। अलमेतैः कार्यैः! अधुना अन्तः आगच्छ। नूतनवस्त्राणि सन्ति। धारयामि।
शिवः-- अहं मम वस्त्राणि पूर्वमेव चितवान्। गजचर्म, मृगाम्बरं च धरामि। पश्यतु जननि। किं नाहं सुन्दरः एताभ्याम्?
माता-- अहो, गजचर्मणः रक्तं पतति! तादृग्वस्त्रं न शोभते, शिशो! सर्वान् देवान् पश्यतु। किं केनापि ध्रियते तथा?
शिवः-- अत एव अहं धरामि। सर्वाभ्यः देवताभ्यः किमहं विशिष्टः, विलक्षणः नास्मि?
माता-- अहो तपस्विन्! त्वं लोकरीतिं न जानासि। अतस्तथा वदसि। सर्वे त्वां दृष्ट्वा अल्पं मन्यन्ते।
शिवः-- (हसित्वा) ये मन्यन्ते तथा, त एवाल्पाः। त्र्यम्बकोहं सर्वं जानामि। नेत्रत्रयेण लोकं पश्यामि। दुःखिता मा स्म भवः।
माता-- (ईषद्धसित्वा) नाहं दुःखिता शिव! तव चेष्टितं, तद्रहस्यं चाहं सर्वं जानामि। तव मातास्मि किल! यथेष्टं चर।
शिवः-- (विस्मितः) धन्योहमम्ब!